Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 9 / 9

यु॒क्ता मा॒तासी॑द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो॑ वृज॒नीष्व॒न्तः। अमी॑मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं᳡ त्रि॒षु योज॑नेषु ॥ 9॥

Veda : Atharvaveda | Kand : 9 | Sukta : 9 | Paryay : | Mantra No : 9

In Hindi:

ऋषि : ब्रह्मा | देवता : वामः, आदित्यः, अध्यात्मम् | छन्द : त्रिष्टुप् | स्वर :

विषय : जीवात्मा और परमात्मा के ज्ञान का उपदेश।

पदपाठ : यु॒क्ता । मा॒ता । आ॒सी॒त् । धु॒रि । दक्षि॑णाया: । अति॑ष्ठत् । गर्भ॑: । वृ॒ज॒नीषु॑ । अ॒न्त: । अमी॑मेत् । व॒त्स: । अनु॑ । गाम् । अ॒प॒श्य॒त् । वि॒श्व॒ऽरू॒प्य᳡म् । त्रि॒षु । योजने॑षु ॥१४.९॥

पदार्थ : (माता) निर्माण करनेवाली [पृथिवी] (दक्षिणायाः) [अपनी] शीघ्र गति से (धुरि)) कष्ट में (युक्ता) युक्त (आसीत्) हुई, (गर्भः) गर्भ [के समान सूर्य] (वृजनीषु अन्तः) रोकने की शक्तियों [आकर्षणों] के भीतर (अतिष्ठत्) स्थिर हुआ। (वत्सः) निवासदाता [सूर्य] ने (विश्वरूप्यम्) सब रूपों [श्वेत, नील, पीत आदि सात वर्णों] में रहनेवाली (गाम्) किरण को (त्रिषु) तीनों [ऊँचे, नीचे और मध्य] (योजनेषु) लोकों में (अनु) अनुकूलता से (अमीमेत्) फैलाया और [उन लोकों को] (अपश्यत्) बाँधा [आकर्षित किया] ॥९॥"

भावार्थ :

टिप्पणी :९−(युक्ता) संयुक्ता (माता) निर्मात्री भूमिः। पृथिवी-दयानन्दः। (आसीत्) (धुरि) धुर्वी हिंसायाम्−क्विप्। हिंसने। कष्टे। या धरति तस्याम् द० (दक्षिणायाः) अ० ५।७।१। दक्ष वृद्धौ शैघ्र्ये च−इनन्, टाप्। शीघ्रगतेः (अतिष्ठत्) (गर्भः) गर्भरूपः सूर्यः (वृजनीषु) अ० ७।५०।७। कॄपॄवृजि०। उ० २।८१। वृजी वर्जने−क्यु, ङीष्। वर्जनशक्तिषु। आकर्षणेषु। वर्जनीयासु कक्षासु-दयानन्दः (अन्तः) मध्ये (अमीमेत्) डुमिञ् प्रक्षेपणे-लङ्। दीर्घः श्लुश्च छान्दसः। अमीमेत्। अमिनोत् प्रक्षिप्तवान्। विस्तारितवान् (वत्सः) वस निवासे-स। निवासयिता सूर्यः (अनु) अनुकूलतया (गाम्) किरणम् (अपश्यत्) पश बन्धनग्रन्थनयोः−श्यन् छान्दसः। अपीपशत्। बद्धवान्। आकर्षितवान् (विश्वरूप्यम्) सर्वरूपेषु श्वेतनीलपीतादिषु भवम् (त्रिषु) उच्चनीचमध्येषु (योजनेषु) लोकेषु। बन्धनेषु-द० ॥