Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 9 / 15

स्त्रियः॑ स॒तीस्ताँ उ॑ मे पुं॒सः आ॑हुः॒ पश्य॑दक्ष॒ण्वान्न वि चे॑तद॒न्धः। क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥ 15॥

Veda : Atharvaveda | Kand : 9 | Sukta : 9 | Paryay : | Mantra No : 15

In Hindi:

ऋषि : ब्रह्मा | देवता : वामः, आदित्यः, अध्यात्मम् | छन्द : त्रिष्टुप् | स्वर :

विषय : जीवात्मा और परमात्मा के ज्ञान का उपदेश।

पदपाठ : स्त्रिय॑: । स॒ती: । तान् । ऊं॒ इति॑ । मे॒ । पुं॒स: । आ॒हु॒: । पश्य॑त् । अ॒क्ष॒ण्ऽवान् । न । वि । चे॒त॒त् । अ॒न्ध: । क॒वि: । य: । पु॒त्र: । स: । ई॒म् । आ । चि॒के॒त॒ । य: । ता । वि॒ऽजा॒नात् । स: । पि॒तु: । पि॒ता । अ॒स॒त् ॥१४.१५॥

पदार्थ : (तान् उ) उन ही [जीवात्माओं] को (पुंसः) पुरुष और (स्त्रियः सतीः) स्त्रियाँ होते हुए (मे) मुझसे (आहुः) वे [तत्त्वदर्शी] कहते हैं, (अक्षण्वान्) आँखोंवाला [यह बात] (पश्यत्=०-ति) देखता है, (अन्धः) अन्धा (न) नहीं (वि चेतत्-०-ति) जानता है। (यः) जो (पुत्रः) पुत्र (कविः) बुद्धिमान् है, (सः) उसने (ईम्) इस [अर्व वा जीवात्मा को] (आ) भली-भाँति (चिकेत) जान लिया है, (यः) जो [पुरुष] (ता=तानि) उन [तत्त्वों] को (विजानात्) जान लेता है, (सः) वह (पितुः) पिता का (पिता) पिता [उपदेशक] (असत्) होता है ॥१५॥"

भावार्थ :

टिप्पणी :१५−(स्त्रियः) स्त्रीत्वं प्राप्ताः (सतीः) वर्तमानाः (तान्) जीवात्मनः (उ) अवधारणे (मे) मह्यम् (पुंसः) पुरुषान् (आहुः) कथयन्ति (पश्यत्) पश्यति (अक्षण्वान्) दृष्टिमान्। विज्ञानी-द० (न) निषेधे (वि) विशेषेण (चेतत्) चेतति जानाति। (अन्धः) नेत्रविहीनः (कविः) मेधावी (यः) (पुत्रः) पवित्रोपचितः-दयानन्दभाष्ये (सः) (ईम्) एनमर्थं जीवात्मानं वा (आ) समन्तात् (चिकेत) कित ज्ञाने-लिट्। ज्ञातवान् (यः) (ता) तानि तत्त्वानि (विजानात्) विजानीयात् (सः) (पितुः) अल्पज्ञानस्य पुरुषस्येत्यर्थः (पिता) पितृवत्पूज्यः (असत्) भवेत् ॥