Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 9 / 16

सा॑कं॒जानां॑ स॒प्तथ॑माहुरेक॒जं षडिद्य॒मा ऋष॑यो देव॒जा इति॑। तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒श स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥ 16॥

Veda : Atharvaveda | Kand : 9 | Sukta : 9 | Paryay : | Mantra No : 16

In Hindi:

ऋषि : ब्रह्मा | देवता : वामः, आदित्यः, अध्यात्मम् | छन्द : जगती | स्वर :

विषय : जीवात्मा और परमात्मा के ज्ञान का उपदेश।

पदपाठ : सा॒क॒म्ऽजाना॑म् । स॒प्तथ॑म् । आ॒हू॒: । ए॒क॒ऽजम् । षट् । इत् । य॒मा: । ऋष॑य: । दे॒व॒ऽजा: । इति॑ । तेषा॑म् । इ॒ष्टानि॑ । विऽहि॑तानि । धा॒म॒ऽश: । स्था॒त्रे । रे॒ज॒न्ते॒ । विऽकृ॑तानि । रू॒प॒ऽश: ॥१४.१६॥

पदार्थ : (साकंजानाम्) एक साथ उत्पन्न हुओं में से (सप्तथम्) सातवें [जीवात्मा] को (एकजम्) अकेला उत्पन्न हुआ (आहुः) वे [तत्त्वदर्शी] बताते हैं, [और कि] (षट्) छह [कान, त्वचा, नेत्र, जिह्वा, नासिका पाँच ज्ञानेन्द्रिय और मन] (इत्) ही (यमाः) नियम में चलानेवाले (ऋषयः) [अपने विषयों को देखनेवाली] इन्द्रिय (देवजाः) देव [गतिशील जीवात्मा] के साथ उत्पन्न होनेवाले हैं, (इति) यह [वे बताते हैं]। (तेषाम्) उन, [इन्द्रियों] के (विहितानि) विहित [ईश्वर के ठहराये] (विकृतानि) विविध प्रकारवाले (इष्टानि) इष्ट कर्म (स्थात्रे) अधिष्ठाता [जीवात्मा] के लिये (धामशः) स्थान-स्थान में और (रूपशः) प्रत्येक रूप में (रेजन्ते) चमकते हैं ॥१६॥ "

भावार्थ :

टिप्पणी :१६−(साकंजानाम्) सहोत्पन्नानां सप्तानां मध्ये (सप्तथम्) थट् च च्छन्दसि। पा० ५।२।५०। इति थट्। सप्तमं जीवात्मानम्। सहजातानां षण्णामिन्द्रियाणामात्मा सप्तमः-निरु० १४।१९। (आहुः) कथयन्ति (एकजम्) एकोत्पन्नम् (षट्) पञ्चज्ञानेन्द्रियमनांसि (इत्) एव (यमाः) नियन्तारः (ऋषयः) अ० २।६।१। ऋषिर्दर्शनात्-निरु० १२।३७। (देवजाः) देवाज्जीवात्मनो जाताः (इति) प्रकारार्थे (तेषाम्) इन्द्रियाणाम् (इष्टानि) अभिमतकर्माणि (विहितानि) विदधातेः-क्त। ईश्वरस्थापितानि (धामशः) धामानि धामानि (स्थात्रे) अधिष्ठात्रे जीवात्मने (रेजन्ते) रेजृ दीप्तौ। दीप्यन्ते। रेजत इति भयवेपनयोः-निरु–० ३।२१। (विकृतानि) विविधप्रकाराणि (रूपशः) प्रत्येकरूपे ॥