Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 9 / 10 / 10

य ईं॑ च॒कार॒ न सो अ॒स्य वे॑द॒ य ईं॑ द॒दर्श॒ हिरु॒गिन्नु तस्मा॑त्। स मा॒तुर्योना॒ परि॑वीतो अ॒न्तर्ब॑हुप्र॒जा निरृ॑ति॒रा वि॑वेश ॥ 10॥

Veda : Atharvaveda | Kand : 9 | Sukta : 10 | Paryay : | Mantra No : 10

In Hindi:

ऋषि : ब्रह्मा | देवता : गौः, विराट्, अध्यात्मम् | छन्द : त्रिष्टुप् | स्वर :

विषय : जीवात्मा और परमात्मा के लक्षणों का उपदेश।

पदपाठ : य: । ई॒म्‌ । च॒कार॑ । न । स: । अ॒स्य । वे॒द॒ । य: । ई॒म् । द॒दर्श॑ । हिरु॑क् । इत् । नु । तस्मा॑त् । स: । मा॒तु: । योना॑ । परि॑ऽवीत: । अ॒न्त: । ब॒हु॒ऽप्र॒जा: । नि:ऽऋ॑ति: । आ । वि॒वे॒श॒ ॥१५.१०॥

पदार्थ : (यः) जिस [परमेश्वर] ने (ईम्) इस [प्राणी] को (चकार) बनाया है, (सः) वह [प्राणी] (अस्य) इस [परमेश्वर] को [यथावत्] (न) नहीं (वेद) जानता है, (यः) जिस [प्राणी] ने (ईम्) इस [परमेश्वर] को (ददर्श) देखा है, वह [परमेश्वर] (तस्मात्) उस [प्राणी] से (हिरुक्) गुप्त (इत् नु) अवश्य ही है। (मातुः) माता के (योना अन्तः) गर्भाशय के भीतर (परिवीतः) लपेटा हुआ [बालक जैसे] (सः) उस (बहुप्रजाः) अनेक प्रजाओंवाले [परमेश्वर] ने (निर्ऋतिः=०-तिम्) भूमि में (आ) सब प्रकार (विवेश) प्रवेश किया है ॥१०॥"

भावार्थ :

टिप्पणी :१०−(यः) परमेश्वरः (ईम्) एनं प्राणिनम् (चकार) ससर्ज (न) निषेधे (सः) प्राणी (अस्य) इमं परमेश्वरम् (वेद) जानाति (यः) प्राणी (ईम्) एनं परमेश्वरम् (ददर्श) दृष्टवान् (हिरुक्) अ० ४।३।१। अन्तर्हितम्-निघ० ३।२५। (इत्) अवश्य (नु) एव (तस्मात्) मनुष्यात् (सः) परमेश्वरः (मातुः) जनन्याः (योना) गर्भाशये (परिवीतः) परिवेष्टितः (अन्तः) मध्ये (बहुप्रजाः) बहुप्रजाश्छन्दसि। पा० ५।४।१२३। बहुप्रजा-असिच्, बहुव्रीहौ। बहुप्रजावान् (निर्ऋतिः) अ० ६।२९।२। निः+ऋ गतौ-क्तिन्। द्वितीयार्थे−सुः। नितरां गमनशीलां पृथिवीम्-निघ० १।१। (आ) समन्तात् (विवेश) प्रविष्टवान् ॥