Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 3 / 9

व॑र॒णेन॒ प्रव्य॑थिता॒ भ्रातृ॑व्या मे॒ सब॑न्धवः। अ॒सूर्तं॒ रजो॒ अप्य॑गु॒स्ते य॑न्त्वध॒मं तमः॑ ॥ 9॥

Veda : Atharvaveda | Kand : 10 | Sukta : 3 | Paryay : | Mantra No : 9

In Hindi:

ऋषि : अथर्वा | देवता : वरणमणिः, वनस्पतिः, चन्द्रमाः | छन्द : अनुष्टुप् | स्वर :

विषय : सब सम्पत्तियों के पाने का उपदेश।

पदपाठ : व॒र॒णेन॑ । प्रऽव्य॑थिता: । भ्रातृ॑व्या: । मे॒ । सऽब॑न्धव: । अ॒सूर्त॑म् । रज॑: । अपि॑ । अ॒गु॒: । ते । य॒न्तु॒ । अ॒ध॒मम् । तम॑: ॥३.९॥

पदार्थ : (वरणेन) वरण [स्वीकार करने योग्य वैदिक बोध वा वरना औषध] द्वारा (प्रव्यथिताः) पीड़ित किये गये (मे) मेरे (भ्रातृत्याः) वैरी लोग (सबन्धवः) अपने बन्धुओं सहित (असूर्तम्) न जाने योग्य (रजः) लोक [देश] में (अपि) ही (अगुः) गये हैं। (ते) वे लोग (अधमम्) अति नीचे (तमः) अन्धकार में (यन्तु) जावें ॥९॥"

भावार्थ :

टिप्पणी :९−(वरणेन) म० १। श्रेष्ठेन (प्रव्यथिताः) अतिपीडिताः (भ्रातृव्याः) शत्रवः (मे) मम (सबन्धवः) बान्धवैः सहिताः (असूर्तम्) नसत्तनिषत्तानुत्त०। पा० ८।२।६१। नञ्+सृ गतौ-क्त, ऋकारस्य उत्वम्। असरणीयमगन्तव्यम् (रजः) लोकम् (अपि) एव (अगुः) प्रापुः (ते) शत्रवः (यन्तु) गच्छन्तु (अधमम्) अतिनीचम् (तमः) अन्धकारम् ॥