Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 8 / 9

ति॒र्यग्बि॑लश्चम॒स ऊ॒र्ध्वबु॑ध्न॒स्तस्मि॒न्यशो॒ निहि॑तं वि॒श्वरू॑पम्। तदा॑सत॒ ऋष॑यः स॒प्त सा॒कं ये अ॒स्य गो॒पा म॑ह॒तो ब॑भू॒वुः ॥ 9॥

Veda : Atharvaveda | Kand : 10 | Sukta : 8 | Paryay : | Mantra No : 9

In Hindi:

ऋषि : कुत्सः | देवता : आत्मा | छन्द : त्रिष्टुप् | स्वर :

विषय : परमात्मा और जीवात्मा के स्वरूप का उपदेश।

पदपाठ : ति॒र्यक्ऽबि॑ल: । च॒म॒स: । ऊ॒र्ध्वऽबु॑ध्न: । तस्मि॑न् । यश॑: । निऽहि॑तम् । वि॒श्वऽरू॑पम् । तत् । आ॒स॒ते॒ । ऋष॑य: । स॒प्त । सा॒कम् । ये । अ॒स्य । गो॒पा । म॒ह॒त: । ब॒भू॒वु: ॥८.९॥

पदार्थ : (तिर्यग्बिलः) तिरछे बिल [छिद्र] वाला, (ऊर्ध्वबुध्नः) ऊपर को बन्धनवाला (चमसः) पात्र [अर्थात् मस्तक] है, (तस्मिन्) उस [पात्र] में (विश्वरूपम्) सम्पूर्ण (यशः) यश [व्याप्तिवाला ज्ञानसामर्थ्य] (निहितम्) स्थापित है। (तत्) उस [पात्र] में (सप्त) सात (ऋषयः) ऋषि [ज्ञानकारक वा मार्गदर्शक इन्द्रियाँ] (साकम्) मिलकर (आसते) बैठते हैं, (ये) जो (अस्य) इस (महतः) बड़े [शरीर] के (गोपाः) रक्षक (बभूवुः) हुए हैं ॥९॥"

भावार्थ :

टिप्पणी :९−(तिर्यग्बिलः) वक्रगतिच्छिद्रयुक्तः (चमसः) पात्रम्। मस्तकम् (ऊर्ध्वबुध्नः) बन्धेर्ब्रधिबुधी च। उ० ३।५। उपरिबन्धनः (तस्मिन्) चमसे (यशः) अशेर्देवने युट् च। उ० ४।१९१। व्याप्तौ-असुन् युडागमः। व्याप्तिमद् ज्ञानसामर्थ्यम् (निहितम्) स्थापितम् (विश्वरूपम्) समस्तम् (तत्) तत्र (आसते) उपविशन्ति (ऋषयः) अ० ४।११।९। ऋष गतौ दर्शने च-इन्। ज्ञानकराणि मार्गदर्शकानि वा शीर्षण्यानि सप्तच्छिद्राणि (सप्त) (साकम्) परस्परम् (ये) (अस्य) दृश्यमानस्य (गोपाः) गुपू रक्षणे-अच्। रक्षकाः (महतः) विशालस्य शरीरस्य (बभूवुः) ॥