Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 10 / 23

सर्वे॒ गर्भा॑दवेपन्त॒ जाय॑मानादसू॒स्वः᳡। स॒सूव॒ हि तामा॒हुर्व॒शेति॒ ब्रह्म॑भिः॒ क्लृप्तः स ह्य᳡स्या॒ बन्धुः॑ ॥ 23॥

Veda : Atharvaveda | Kand : 10 | Sukta : 10 | Paryay : | Mantra No : 23

In Hindi:

ऋषि : कश्यपः | देवता : वशा | छन्द : बृहती | स्वर :

विषय : ईश्वर शक्ति की महिमा का उपदेश।

पदपाठ : सर्वे॑ । गर्भा॑त् । अ॒वे॒प॒न्त॒ । जाय॑मानात् । अ॒सू॒प्स्व᳡: । स॒सूव॑ । हि । ताम् । आ॒हु: । व॒शा । इति॑ । ब्रह्म॑ऽभि: । क्लृ॒प्त: । स: । हि । अ॒स्या॒: । बन्धु॑: ॥१०.२३॥

पदार्थ : (सर्वे) सब [ऋषि] (असूस्वः) सत्ता की उत्पन्न करनेवाली [परमेश्वरशक्ति] के (जायमानात्) उत्पन्न होते हुए (गर्भात्) गर्भ [संसार] से (अवेपन्त) थरथराये, (हि) क्योंकि (ताम्) उस [शक्ति] को (आहुः) वे [ब्रह्मज्ञानी] बताते हैं कि−“(वशा) वशा [कामनायोग्य परमेश्वरशक्ति] ने (ससूव इति) उत्पन्न किया था,” (हि) क्योंकि (ब्रह्मभिः) वेदज्ञानों से (क्लृप्तः) समर्थ (सः) वह [परमेश्वर] (अस्याः) इस [शक्ति] का (बन्धुः) बन्धु [संबन्धवाला] है ॥२३॥"

भावार्थ :

टिप्पणी :२३−(सर्वे) ऋषयः (गर्भात्) गर्भरूपात् संसारात् (अवेपन्त) कम्पितवन्तः (जायमानात्) उत्पद्यमानात् (असूस्वः) असू−स्वः। कृषिचमितनि०। उ० १।८०। अस सत्तायाम्-ऊ+षूङ् प्राणिगर्भविमोचने-क्विप्। आडभावो यणादेशश्च। असूं सत्तां सृष्टिं सूयते सा असूसूस्तस्याः असूस्वाः। सत्तायाः सृष्टेः जनयित्र्याः परमेश्वरशक्तेः (ससूव) षूङ् प्राणिगर्भविमोचने-लिट्। ससूवेति निगमे। पा० ७।४।७४। इति परस्मैपदे रूपम्। सुषुवे। जनयामास (हि) यस्मात् (ताम्) परमेश्वरशक्तिं प्रति (आहुः) कथयन्ति मनीषिणः (वशा) कमनीया परमेश्वरशक्तिः (ब्रह्मभिः) वेदज्ञानैः (क्लृप्तः) समर्थः (सः) परमेश्वरः (हि) यस्मात् (अस्याः) वशायाः (बन्धुः) सम्बन्धी ॥