Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 10 / 10 / 32

सोम॑मेना॒मेके॑ दुह्रे घृ॒तमेक॒ उपा॑सते। य ए॒वं वि॒दुषे॑ व॒शां द॒दुस्ते॑ ग॒तास्त्रि॑दि॒वं दि॒वः ॥ 32॥

Veda : Atharvaveda | Kand : 10 | Sukta : 10 | Paryay : | Mantra No : 32

In Hindi:

ऋषि : कश्यपः | देवता : वशा | छन्द : विराट्पथ्या बृहती | स्वर :

विषय : ईश्वर शक्ति की महिमा का उपदेश।

पदपाठ : सोम॑म् । ए॒ना॒म् । एके॑ । दु॒ह्रे॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ । ये । ए॒वम् । वि॒दुषे॑ । व॒शाम् । द॒दु: । ते । ग॒ता: । त्रि॒ऽदि॒वम् । दि॒व: ॥१०.३२॥

पदार्थ : (एके) कोई-कोई [महात्मा] (एनाम्) इससे (सोमम्) ऐश्वर्य को (दुह्ने) दुहते हैं, (एके) कोई-कोई [इस के] (घृतम्) तत्त्व का (उप आसते) सेवन करते हैं, (ये) जिन्होंने (एवम्) ऐसे (विदुषे) विद्वान् को (वशाम्) वशा [कामनायोग्य परमेश्वरशक्ति] का (ददुः) दान किया है, (ते) वे (दिवः) विजय के (त्रिदिवम्) तीन [आय, व्यय, वृद्धि] के व्यवहारस्थान में (गताः) पहुँचे हैं ॥३२॥"

भावार्थ :

टिप्पणी :३२−(सोमम्) ऐश्वर्यम् (एनाम्) वशाम् (एके) महात्मानः (दुह्रे) दुह प्रपूरणे-लट्। बहुलं छन्दसि। पा० ७।१।४१। तलोपः। दुहते। प्रपूरयन्ति (घृतम्) तत्त्वम् (एके) (उपासते) सेवन्ते (ये) विद्वांसः (एवम्) अनेन प्रकारेण (विदुषे) विदते−जानते पुरुषाय (वशाम्) म० २। कमनीयां परमेश्वरशक्तिम् (ददुः) दत्तवन्तः (ते) विद्वांसः (गताः) प्राप्ताः (त्रिदिवम्) अ० १०।९।५। त्रयाणां दिवानामायव्ययवृद्धिव्यवहाराणां स्थानम् (दिवः) अ० १०।९।५। विजयस्य ॥