Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 13

यस्यां॒ वेदिं॑ परिगृ॒ह्णन्ति॒ भूम्यां॒ यस्यां॑ य॒ज्ञं त॒न्वते॑ वि॒श्वक॑र्माणः। यस्यां॑ मी॒यन्ते॒ स्वर॑वः पृथि॒व्यामू॒र्ध्वाः शु॒क्रा आहु॑त्याः पु॒रस्ता॑त्। सा नो॒ भूमि॑र्वर्धय॒द्वर्ध॑माना ॥ 13॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 13

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : त्र्यवसाना पञ्चपदा शक्वरी | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : यस्या॑म् । वेदि॑म् । प॒रि॒ऽगृ॒ह्णन्ति॑ । भूम्या॑म् । यस्या॑म् । य॒ज्ञम् । त॒न्वते॑ । वि॒श्वऽक॑र्माण: । यस्या॑म् । मी॒यन्ते॑ । स्वर॑व: । पृ॒थि॒व्याम् । ऊ॒र्ध्वा: । शु॒क्रा: । आऽहु॑त्या: । पु॒रस्ता॑त् । सा । न॒: । भूमि॑: । व॒र्ध॒य॒त् । वर्ध॑माना ॥१.१३॥

पदार्थ : (यस्याम् भूम्याम्) जिस भूमि पर (विश्वकर्माणः) विश्वकर्मा [सब कामों में चतुर] लोग (वेदिम्) वेदी [यज्ञस्थान] को (परिगृह्णन्ति) घेर लेते हैं, (यस्याम्) जिस [भूमि] पर (यज्ञम्) यज्ञ [देवपूजा, संगतिकरण और दानव्यवहार] को (तन्वते) फैलाते हैं। (यस्याम् पृथिव्याम्) जिस पृथिवी पर (ऊर्ध्वाः) ऊँचे और (शुक्राः) उजले (स्वरवः) विजयस्तम्भ (आहुत्याः) आहुति [पूर्णाहुति, यज्ञपूर्ति] से (पुरस्तात्) पहिले (मीयन्ते) गाढ़े जाते हैं। (सा) वह (वर्धमाना) बढ़ती हुई (भूमिः) भूमि (नः) हमें (वर्धयत्) बढ़ाती रहे ॥१३॥"

भावार्थ :

टिप्पणी :१३−(यस्याम्) (वेदिम्) परिष्कृतां यज्ञभूमिम् (परिगृह्णन्ति) परितः सीदन्ति (भूम्याम्) (यस्याम्) (यज्ञम्) देवपूजासंगतिकरणदानव्यवहारम् (तन्वते) विस्तारयन्ति (विश्वकर्माणः) सर्वकर्मकुशलाः (यस्याम्) (मीयन्ते) डुमिञ् प्रक्षेपणे। निक्षिप्यन्ते (पृथिव्याम्) (ऊर्ध्वाः) उन्नताः (शुक्राः) शुक्लाः (आहुत्याः) पूर्णयज्ञादित्यर्थः (पुरस्तात्) अग्रे (सा) (नः) अस्मान् (भूमिः) (वर्धयत्) वर्धयेत् (वर्धमाना) वृद्धिं गच्छन्ती ॥