Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 1 / 36

ग्री॒ष्मस्ते॑ भूमे व॒र्षाणि॑ श॒रद्धे॑म॒न्तः शिशि॑रो वस॒न्तः। ऋ॒तव॑स्ते॒ विहि॑ता हाय॒नीर॑होरा॒त्रे पृ॑थिवि नो दुहाताम् ॥ 36॥

Veda : Atharvaveda | Kand : 12 | Sukta : 1 | Paryay : | Mantra No : 36

In Hindi:

ऋषि : अथर्वा | देवता : भूमिः | छन्द : विपरीतपादलक्ष्मा पङ्क्तिः | स्वर :

विषय : राज्य की रक्षा का उपदेश।

पदपाठ : ग्री॒ष्म: । ते॒ । भू॒मे॒ । व॒र्षाणि॑ । श॒रत् । हे॒म॒न्त: । शिशि॑र: । व॒स॒न्त: । ऋ॒तव॑: । ते॒ । विऽहि॑ता: । हा॒य॒नी: । अ॒हो॒रा॒त्रे इति॑ । पृ॒थि॒वि॒ । न॒: । दु॒हा॒ता॒म् ॥१.३६॥

पदार्थ : (भूमे) हे भूमि ! (ते) तेरे (ग्रीष्मः) घाम ऋतु [ज्येष्ठ-आषाढ़], (वर्षाणि) बरसा [श्रावण-भाद्र], (शरत्) शरद् ऋतु [आश्विन-कार्तिक], (हेमन्तः) शीतकाल [अग्रहायण-पौष], (शिशिरः) उतरता हुआ शीतकाल [माघ-फाल्गुन] और (वसन्तः) वसन्त काल [चैत्र-वैशाख] (ऋतवः) ऋतु हैं, [उनको] (पृथिवि) हे पृथिवी ! (विहिताः) विहित [स्थापित] (हायनीः) वर्षों, तक (ते) तेरे (अहोरात्रे) दिन-राति [दोनों] (नः) हमारे लिये (दुहाताम्) पूर्ण करें ॥३६॥"

भावार्थ :

टिप्पणी :३६−ग्रीष्मादयः शब्दा व्याख्याताः अ० ६।५५।२। (ग्रीष्मः) निदाघः। ज्येष्ठाषाढात्मकः कालः (ते) तव (भूमे) (वर्षाणि) श्रावणभाद्रात्मको मेघकालः (शरत्) आश्विनकार्तिकात्मकः कालः (हेमन्तः) अग्रहायणपौषात्मकः शीतकालः (शिशिरः) माघफाल्गुनात्मकः शीतान्तः कालः (वसन्तः) चैत्रवैशाखात्मकः पुष्पकालः (ऋतवः) कालभेदाः (ते) तव (विहिताः) विधृताः। विधिना बोधिताः (हायनीः) कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया। संवत्सरान् (अहोरात्रे) रात्रिदिने (पृथिवि) (नः) अस्मभ्यम् (दुहाताम्) पूरयताम् ॥