Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 3 / 49

प्रि॒यं प्रि॒याणां॑ कृणवाम॒ तम॒स्ते य॑न्तु यत॒मे द्वि॒षन्ति॑। धे॒नुर॑न॒ड्वान्वयो॑वय आ॒यदे॒व पौरु॑षेय॒मप॑ मृ॒त्युं नु॑दन्तु ॥ 49॥

Veda : Atharvaveda | Kand : 12 | Sukta : 3 | Paryay : | Mantra No : 49

In Hindi:

ऋषि : यमः | देवता : स्वर्गः, ओदनः, अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : परस्पर उन्नति करने का उपदेश।

पदपाठ : प्रि॒यम् । प्रि॒याणा॑म् । कृ॒ण॒वा॒म॒ । तम॑: । ते । य॒न्तु॒ । य॒त॒मे । द्वि॒षन्ति॑ । धे॒नु: । अ॒न॒ड्वान् । वय॑:ऽवय: । आ॒ऽयत् । ए॒व । पौरु॑षेयम् । अप॑ । मृ॒त्युम् । नु॒द॒न्तु॒॥३.४९॥

पदार्थ : (प्रियाणाम्) अपने प्यारों का हम (प्रियम्) प्रिय [कर्म] (कृणवाम) करें (ते) वे [दुष्ट] (तमः) अन्धकार [कारागार] में (यन्तु) जावें (यतमे) जो कोई (द्विषन्ति) [हम से] वैर करते हैं। (धेनुः) दुधैल गाय, (अनड्वान्) छकड़ा ले चलनेवाला बैल और (आयत्) आता हुआ (वयोवयः) प्रत्येक अन्न (एव) निश्चय करके (पौरुषेयम्) पुरुष की (मृत्युम्) मृत्यु को (अप नुदन्तु) ढकेल देवें ॥४९॥"

भावार्थ :

टिप्पणी :४९−(प्रियम्) प्रीतिकरं कर्म (प्रियाणाम्) स्वहितकारकाणाम् (कृणवाम) कुर्याम (तमः) अन्धकारम्। कारागारम् (ते) दुष्टाः (यन्तु) गच्छन्तु (यतमे) ये केचित् (द्विषन्ति) वैरायन्ते (धेनुः) दोग्ध्री गौः (अनड्वान्) शकटवाहको बलीवर्दः (वयोवयः) प्रत्येकप्रकारमन्नम् (आयत्) इण् गतौ−शतृ। आगच्छत् (एव) निश्चयेन (पौरुषेयम्) पुरुष−ढञ्। मानुषम् (अप) दूरे (मृत्युम्) मरणम् (नुदन्तु) प्रेरयन्तु ॥