Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 3 / 50

सम॒ग्नयः॑ विदुर॒न्यो अ॒न्यं य ओष॑धीः॒ सच॑ते॒ यश्च॒ सिन्धू॑न्। याव॑न्तो दे॒वा दि॒व्या॒तप॑न्ति॒ हिर॑ण्यं॒ ज्योतिः॒ पच॑तो बभूव ॥ 50॥

Veda : Atharvaveda | Kand : 12 | Sukta : 3 | Paryay : | Mantra No : 50

In Hindi:

ऋषि : यमः | देवता : स्वर्गः, ओदनः, अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : परस्पर उन्नति करने का उपदेश।

पदपाठ : सम् । अ॒ग्नय॑:। वि॒दु॒: । अ॒न्य: । अ॒न्यम् । य: । ओष॑धी:। सच॑ते । य: । च॒ । सिन्धू॑न् । याव॑न्त:। दे॒वा: । दि॒वि । आ॒ऽतप॑न्ति । हिर॑ण्यम् । ज्योति॑: ।‍ पच॑त: । ब॒भू॒व॒ ॥३.५०॥

पदार्थ : (अग्नयः) सब आगे [के ताप] (अन्यो अन्यम्) परस्परं (सं विदुः) मिलते हैं, (यः) जो [ताप] (ओषधीः) ओषधियों [अन्न सोमलता आदि] को (च) और (यः) जो (सिन्धून्) [पृथिवी और अन्तरिक्ष के] समुद्रों को (सचते) सेवता है। (यावन्तः) जितने (देवाः) चमकते हुए लोक (दिवि) आकाश में (आतपन्ति) सब ओर तपते हैं, [वैसे ही] (पचतः) सब के परिपक्व करनेवाले वा विस्तारक [परमेश्वर] के (हिरण्यम्) कमनीय प्रकाश ने (ज्योतिः) [प्रत्येक] ज्योति में (बभूव) मेल किया है ॥५०॥"

भावार्थ :

टिप्पणी :५०−(अग्नयः) अग्नितापाः (संविदुः) सं गच्छन्ते (अन्यो अन्यम्) परस्परम् (यः) अग्निः (ओषधीः) अन्नसोमलतादीन् (सचते) सेवते (यः) (च) (सिन्धून्) पृथिव्यन्तरिक्षस्थान् समुद्रान् (यावन्तः) (देवाः) प्रकाशमाना लोकाः (दिवि) आकाशे (आतपन्ति) (हिरण्यम्) अ० १।९।२। हर्यतेः कन्यन् हिर च। उ० ५।४४। हर्य गतिकान्त्योः−कन्यन्, हिरादेशः। कमनीयः प्रकाशः (ज्योतिः) तेजः (पचतः) पच पाके व्यक्तीकरणे च−शतृ। पक्वं दृढं कुर्वतो व्यक्तीकुर्वतो वा परमेश्वरस्य (बभूव) भू मिश्रीकरणे−लिट्। मिश्रीकृतवान् ॥