Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 12 / 3 / 51

ए॒षा त्व॒चां पुरु॑षे॒ सं ब॑भू॒वान॑ग्नाः॒ सर्वे॑ प॒शवो॒ ये अ॒न्ये। क्ष॒त्रेणा॒त्मानं॒ परि॑ धापयाथोऽमो॒तं वासो॒ मुख॑मोद॒नस्य॑ ॥ 51॥

Veda : Atharvaveda | Kand : 12 | Sukta : 3 | Paryay : | Mantra No : 51

In Hindi:

ऋषि : यमः | देवता : स्वर्गः, ओदनः, अग्निः | छन्द : त्रिष्टुप् | स्वर :

विषय : परस्पर उन्नति करने का उपदेश।

पदपाठ : ए॒षा । त्व॒चाम् । पुरु॑षे । सम् । ब॒भू॒व॒ । अन॑ग्ना: । सर्वे॑ । प॒शव॑: । ये । अ॒न्ये । क्ष॒त्रेण॑ । आ॒त्मान॑म् । परि॑ । ध॒प॒या॒थ॒: । अ॒मा॒ऽउ॒तम् । वास॑: । मुख॑म्। ओ॒द॒नस्य॑ ॥३.५१॥

पदार्थ : (त्वचाम्) त्वचाओं [शरीर की खालों] में से (एषा) यह (पुरुषे) पुरुष [शरीर] पर (सम् बभूव) मिली है, और (वे) जो (अन्ये) दूसरे (पशवः) जीव हैं, (सर्वे) वे सब [भी] (अनग्नाः) बिना नंगे [खालवाले] हैं। [हे स्त्री-पुरुषो !] तुम दोनों (क्षत्रेण) हानि से बचानेवाले बल से (आत्मानम्) अपने को (परि धापयाथः) ढँपवाओ, [जैसे] (अमोतम्) ज्ञान से बुना हुआ (वासः) कपड़ा (ओदनस्य) अन्न आदि का (मुखम्) मुख्य [रक्षासाधन] है ॥५१॥"

भावार्थ :

टिप्पणी :५१−(एषा) दृश्यमाना (त्वचाम्) शरीरचर्मणां मध्ये (पुरुषे) पुरुषशरीरे (संबभूव) उत्पन्ना बभूव (अनग्नाः) नञ् ओनजी व्रीडायाम्−क्त। सवस्त्राः। सचर्माणः (सर्वे) (पशवः) प्राणिनः (ये) (अन्ये) (क्षत्रेण) क्षतः क्षतात् त्रायकेण बलेन (आत्मानम्) (परि धापयाथः) आच्छादयतं युवाम् (अमोतम्) अ० ९।५।१४। अम गतौ−घ प्रत्ययः, टाप्+ वेञ् तन्तुसन्ताने−क्त। ज्ञानेन उतं स्यूतम् (वासः) वस्त्रम् (मुखम्) प्रधानं रक्षासाधनम् (ओदनस्य) अन्नस्य ॥