Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 13 / 1 / 27

वि मि॑मीष्व॒ पय॑स्वतीं घृ॒ताचीं॑ दे॒वानां॑ धे॒नुरन॑पस्पृगे॒षा। इन्द्रः॒ सोमं॑ पिबतु॒ क्षेमो॑ अस्त्व॒ग्निः प्र स्तौ॑तु॒ वि मृधो॑ नुदस्व ॥ 27॥

Veda : Atharvaveda | Kand : 13 | Sukta : 1 | Paryay : | Mantra No : 27

In Hindi:

ऋषि : ब्रह्मा | देवता : अध्यात्मम्, रोहितः, आदित्यः | छन्द : त्रिष्टुप् | स्वर :

विषय : जीवात्मा और परमात्मा का उपदेश।

पदपाठ : वि । मि॒मी॒ष्व॒ । पय॑स्वतीम् । घृ॒ताची॑म् । दे॒वाना॑म् । धे॒नु: । अन॑पऽस्पृक् । ए॒षा । इन्द्र॑: ।सोम॑म् । पि॒ब॒तु॒ । क्षेम॑: । अ॒स्तु॒ । अ॒ग्नि: । प्र । स्तौ॒तु॒ । वि । मृध॑: । नु॒द॒स्व॒ ॥१.२७॥

पदार्थ : [हे विद्वान् !] (पयस्वतीम्) उत्तम अन्नवाली और (घृताचीम्) जल पहुँचानेवाली [प्रकृति] को (वि) विविध प्रकार (मिमीष्व) नाप, (एषा) वह (देवानाम्) विद्वानों की (अनपस्पृक्) न रोकनेवाली (धेनुः) तृप्ति करनेवाली [गौ के समान] है। (इन्द्रः) ऐश्वर्यवान् [यह मनुष्य] (सोमम्) अमृत (पिबतु) पान करे, (क्षेमः) सकुशल (अस्तु) होवे, और (अग्निः) ज्ञानवान् [यह पुरुष] (प्र स्तौतु) स्तुति करे, तू (मृधः) वैरियों को (वि नुदस्व) निकाल दे ॥२७॥"

भावार्थ :

टिप्पणी :२७−(वि) विविधम् (मिमीष्व) माङ् माने शब्दे च। मानेन प्राप्नुहि (पयस्वतीम्) अन्नवतीम् (घृताचीम्) घृतं जलमञ्चयति प्रापयति या तां प्रकृतिम् (देवानाम्) विदुषाम् (धेनुः) अ० ३।१०।१। धि धारणे तर्पणे च-न। धेनुर्धवतेर्वा धिनोतेर्वा-निरु० ११।४२। तर्पयित्री (अनपस्पृक्) स्पृश स्पर्शने-क्विप्। अप्रतिबाधिका (एषा) प्रकृतिः (इन्द्रः) ऐश्वर्यवान् मनुष्यः (सोमम्) अमृतम्। मोक्षसुखम् (पिबतु) अनुभवतु (क्षेमः) सकुशलः (अस्तु) (अग्निः) विद्वान् पुरुषः (प्र) प्रकर्षेण (स्तौतु) प्रशंसतु (वि) पृथग्भावे (मृधः) हिंसकान् (नुदस्व) प्रेरय ॥