Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 14 / 1 / 13

सू॒र्याया॑वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत्। म॒घासु॑ ह॒न्यन्ते॒ गावः॒ फल्गु॑नीषु॒व्यु᳡ह्यते ॥13॥

Veda : Atharvaveda | Kand : 14 | Sukta : 1 | Paryay : | Mantra No : 13

In Hindi:

ऋषि : सवित्री, सूर्या | देवता : आत्मा | छन्द : अनुष्टुप् | स्वर :

विषय : विवाह संस्कार का उपदेश।

पदपाठ : सू॒र्याया॑: । व॒ह॒तु । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒ऽअसृ॑जत् । म॒घासु॑ । ह॒न्यन्ते॑ । गाव॑: । फल्गु॑नीषु । वि । उ॒ह्य॒ते॒ ॥१.१३॥

पदार्थ : (सूर्यायाः) प्रेरणाकरनेवाली [वा सूर्य की चमक के समान तेजवाली] कन्या का (वहतुः) दाय [यौतुक, कन्याको दिया पदार्थ] (प्र अगात्) सन्मुख चले, (यम्) जिस [पदार्थ] को (सविता)जन्मदाता पिता (अव असृजत्) दान करे। (मघासु) सत्कार क्रियाओं में (गावः) वाचाएँ (हन्यन्ते) चलें, और वह [वधू] (फल्गुनीषु) सफल क्रियाओं के बीच (वि उह्यते) लेजाई जावे ॥१३॥"

भावार्थ :

टिप्पणी :१३−(सूर्यायाः) प्रेरिकायाः।सूर्यदीप्तिवत्तेजोवत्याः कन्यायाः (वहतुः) एधिवह्योश्चतुः। उ० १।७७। वहप्रापणे−चतुः। विवाहकाले कन्यायै देयः पदार्थः। विवाहः। वहनकारणम् (प्र अगात्)प्रकर्षेण गच्छतु (सविता) जनकः। पिता (यम्) पदार्थम् (अव असृजत्) दत्तवान् (मघासु) मह पूजायाम्-अच् अर्शआद्यच्। मघं धननाम-निघ० २।१०। सत्कारवतीषुक्रियासु। धनवतीषु क्रियासु (हन्यन्ते) हन हिंसागत्योः। गम्यन्ते। प्राप्यन्ते (गावः) वाचः (फल्गुनीषु) फलेर्गुक् च। उ० ३।५६। फल निष्पत्तौ-उनन्, गुक् चङीप्। सफलक्रियासु (व्युह्यते) विविधं नीयते ॥