Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 2 / 9

यास्ते॑ शो॒चयो॒रंह॑यो जातवेदो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्। अ॒जं यन्त॒मनु॒ ताःसमृ॑ण्वता॒मथेत॑राभिः शि॒वत॑माभिः शृ॒तं कृ॑धि ॥9॥

Veda : Atharvaveda | Kand : 18 | Sukta : 2 | Paryay : | Mantra No : 9

In Hindi:

ऋषि : अथर्वा | देवता : यम, मन्त्रोक्त | छन्द : जगती | स्वर :

विषय : आचार्य और ब्रह्मचारी के कर्त्तव्य का उपदेश।

पदपाठ : या: । ते॒ । शो॒चय॑: । रंह॑य: । जा॒त॒ऽवे॒द॒: । याभि॑: । आ॒ऽपृ॒णासि॑ । दिव॑म् । अ॒न्तरि॑क्षम् । अ॒जम् । यन्त॑म् । अनु॑ । ता: । सम् । ऋ॒ण्व॒ता॒म् । अथ॑ । इत॑राभि: । शि॒वऽत॑माभि: । शृ॒तम् । कृ॒धि॒ ॥२.९॥

पदार्थ : (जातवेदः) हे बड़ेविद्वान् ! [मनुष्य] (याः) जो (ते) तेरी (शोचयः) पवित्र क्रियाएँ और (रंहयः)वेग क्रियाएँ हैं और (याभिः) जिन [क्रियाओं] से (दिवम्) व्यवहारकुशल [वागतिमान्] (अन्तरिक्षम्) मध्यवर्ती हृदय को (आपृणासि) तू सब ओर से पूर्ण करता है। (ताः) वे [सब क्रियाएँ] (यन्तम्) चलते हुए (अजम् अनु) अजन्मे [वा गतिशीलजीवात्मा] के अनुकूल होकर (सम्) ठीक-ठीक (ऋण्वताम्) चलें, (अथ) फिर तू (इतराभिः)दूसरी [ईश्वर की प्राप्तिवाली] (शिवतमाभिः) अत्यन्त कल्याणकारी [क्रियाओं] से [जीवात्मा] को (शृतम्) परिपक्व (कृधि) कर ॥९॥"

भावार्थ :

टिप्पणी :९−(याः) (ते) तव (शोचयः) शुचिक्रियाः (रंहयः) रहि गतौ-इ प्रत्ययः। वेगक्रियाः (जातवेदः) हे प्रसिद्धज्ञान महाविद्वन् (याभिः) पूर्वोक्ताभिः (आपृणासि)समन्तात् पूरयसि (दिवम्) दिवु व्यवहारे गतौ च-क। व्यवहारकुशलम्। गतियुक्तम् (अन्तरिक्षम्) मध्ये दृश्यमानं हृदयम् (अजम्) अजन्मानं गतिमन्तं वा जीवात्मानम् (यन्तम्) इण् गतौ-शतृ। गच्छन्तम्। (ताः) पूर्वोक्ताः क्रियाः (ऋण्वताम्) ऋणगतौ-लोट्। गच्छन्तु (अथ) पुनः। जीवात्मप्राप्तिपश्चात् (इतराभिः)जीवात्मभिन्नाभिः परमात्मप्राप्तिक्रियाभिः (शिवतमाभिः) अत्यन्तसुखकराभिः (शृतम्) परिपक्वज्ञानम् (कृधि) कुरु−जीवात्मानमिति शेषः ॥