Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 18 / 4 / 34

एनी॑र्धा॒नाहरि॑णीः॒ श्येनी॑रस्य कृ॒ष्णा धा॒ना रोहि॑णीर्धे॒नव॑स्ते। ति॒लव॑त्सा॒ऊर्ज॑म॒स्मै दुहा॑ना वि॒श्वाहा॑ स॒न्त्वन॑पस्पुरन्तीः ॥34॥

Veda : Atharvaveda | Kand : 18 | Sukta : 4 | Paryay : | Mantra No : 34

In Hindi:

ऋषि : अथर्वा | देवता : यम, मन्त्रोक्त | छन्द : त्रिष्टुप् | स्वर :

विषय : गोरक्षा का उपदेश।

पदपाठ : एनी॑: । धा॒ना: । हरि॑णी: । श्येनी॑: । अ॒स्य॒ । कृ॒ष्णा: । धा॒ना: । रोहि॑णी: । धे॒नव॑: । ते॒ । ति॒लऽव॑त्सा: ।ऊर्ज॑म् । अ॒स्मै । दुहा॑ना: । वि॒श्वाहा॑ । स॒न्तु॒ । अ॒न॒प॒ऽस्फुर॑न्ती: ॥४.३४॥

पदार्थ : [हे मनुष्य !] (अस्य)इस (ते) तेरी (एनीः) चितकबरी, (हरिणीः) पीली, (श्येनीः) धौली, (कृष्णाः) काली, (रोहिणीः) लाल (तिलवत्साः) बड़े-बड़े बछड़ोंवाली, (अनपस्फुरन्तीः) कभी न चलायमानहोनेवाली (धेनवः) दुधेल गौएँ (धानाः) पुष्टिकारक (धानाः) धानियों [सुसंस्कृतअन्नों] को और (ऊर्जम्) बलदायक रस [दूध घी आदि] को (अस्मै) उस तेरे लिये (विश्वाहा) सब दिनों (दुहानाः) देती हुई (सन्तु) होवें ॥३४॥"

भावार्थ :

टिप्पणी :३४−(एनीः) कर्बूरवर्णाः (धानाः) पोषयित्रीः (हरिणीः) हरिण्यः।हरितवर्णाः (श्येनीः) श्वेतवर्णाः (अस्य) पुरुषस्य (कृष्णाः) कृष्णवर्णाः (धानाः) सुसंस्कृतान्नानि (रोहिणीः) रोहितवर्णाः रक्ताः (धेनवः) दोग्ध्र्यो गावः (ते) तव (तिलवत्साः) म० ३३। प्रधानशिशूपेताः (ऊर्जम्) बलकरं रसं दुग्धघृतादिकम् (अस्मै) तथाभूताय तुभ्यम् (दुहानाः) प्रयच्छन्त्यः (विश्वाहा) सर्वाणि दिनानि (सन्तु) (अनपस्फुरन्तीः) स्फुर संचलने-शतृ। न कदापि संचलन्त्यः ॥