Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 25 / 7

प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म्। इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ॥ 7॥

Veda : Atharvaveda | Kand : 20 | Sukta : 25 | Paryay : | Mantra No : 7

In Hindi:

ऋषि : अष्टकः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर :

विषय : विद्वानों के कर्तव्य का उपदेश।

पदपाठ : प्र । उ॒ग्राम् । पी॒तिम् । वृष्णे॑ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒ऽयै । सु॒तस्य॑ । ह॒रि॒ऽअ॒श्व॒ । तुभ्य॑म् ॥ इन्द्र॑ । धेना॑भि: । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भि: । विश्वा॑भि: । शच्या॑ । गृ॒णा॒न: ॥२५.७॥

पदार्थ : (हर्यश्व) हे वायु समान फुरतीले घोड़ोंवाले ! (वृष्णे तुभ्यम्) तुझ महाबली को (प्रयै) आगे चलने के लिये (सुतस्य) निचोड़ [सिद्धान्त] का (उग्राम्) तीव्र, (सत्याम्) सत्यगुणवाला (पीतिम्) घूँट (प्र इयर्मि) आगे रखता हूँ। (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले विद्वान्] (धेनाभिः) वेदवाणियों द्वारा (इह) यहाँ पर (विश्वाभिः) समस्त (धीभिः) बुद्धियों से और (शच्या) कर्म से (गृणानः) उपदेश करता हुआ तू (मादयस्व) आनन्द दे ॥७॥"

भावार्थ :

टिप्पणी :यह मन्त्र ऋग्वेद में है-१०।१०४।३। और आगे है-अ० २०।३३।२ ॥ इति तृतीयेऽनुवाके द्वितीयः पर्यायः ॥ ७−(उग्राम्) तीव्राम् (पीतिम्) पानम् (वृष्णे) महाबलवते (प्र इयर्मि) ऋ गतौ जुहोत्यादिः। प्रेरयामि। अग्रे धरामि (सत्याम्) यथार्थगुणयुक्ताम् (प्रयै) प्रयै रोहिष्यै अव्यथिष्यै। पा० ३।४।१०। प्र+या गतिप्रापणयोः-कैप्रत्ययः, तुमर्थे। प्रयातुम्। अग्रे गन्तुम् (सुतस्य) (संस्कृतस्य) सिद्धान्तस्य (हर्यश्व) अ० ।३।८। हृञ् प्रापणस्वीकारस्त्येननाशनेषु-इन्+अशू व्याप्तौ-क्वन्। हरी इन्द्रस्य-निघ० २।१। हरिर्वायुः। हे हरिभिर्वायुतुल्यैः शीघ्रगामिभिस्तुरङ्गैर्युक्त (तुभ्यम्) (इन्द्र) हे परमैश्वर्यवन् विद्वन् (धेनाभिः) धेट इच्च। उ० ३।११। धेट् पाने-नप्रत्ययः, टाप्। धेना वाङ्नाम-निघ० १।११। वेदवाणीभिः (इह) अत्र (मादयस्व) आनन्दय (धीभिः) प्रज्ञाभिः (विश्वाभिः) सर्वाभिः (शच्या) अ० ।११।८। शच व्यक्तायां वाचि-इन्, ङीप्। कर्मणा-निघ० २।१। (गृणानः) उपदिशंस्त्वम् ॥