Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 20 / 94 / 9

इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवञ्छफा॒रुजः॑। अ॒स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्यं᳡ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥ 9॥

Veda : Atharvaveda | Kand : 20 | Sukta : 94 | Paryay : | Mantra No : 9

In Hindi:

ऋषि : कृष्णः | देवता : इन्द्रः | छन्द : जगती | स्वर :

विषय : राजा और प्रजा के कर्तव्य का उपदेश।

पदपाठ : इ॒मम् । बि॒भ॒र्मि॒ । सुऽकृ॑तम् । ते॒ । अ॒ङ्कु॒शम् । येन॑ । आ॒ऽरु॒जासि॑ । म॒घ॒ऽव॒न् । श॒फ॒ऽआ॒रुज॑: ॥ अ॒स्मिन् । सु । ते । सव॑ने । अ॒स्तु॒ । ओ॒क्य॑म् । सु॒ते । इ॒ष्टौ । म॒घ॒ऽव॒न् । बो॒धि॒ । आऽभ॑ग:॥९४.९॥

पदार्थ : (मघवन्) हे महाधनी ! (इमम्) इस (सुकृतम्) दृढ़ बने हुए (अङ्कुशम्) अङ्कुश को (ते) तेरे लिये (बिभर्भि) मैं रखता हूँ, (येन) जिस [कारण] से (शफारुजः) शान्ति भंजकों को (आरुजासि) तू नष्ट करे। (अस्मिन्) इस (सवने) ऐश्वर्य के बीच (ते) तेरा (ओक्यम्) निवास (सु) भले प्रकार (अस्तु) होवे, (इष्टौ) यज्ञ [देवपूजा, संगतिकरण और दान] के बीच (सुते) सिद्ध किये हुए तत्त्व रस में (मघवन्) हे महाधनी ! (आभगः) बड़ा ऐश्वर्य (बोधि) जाना जाता है ॥९॥"

भावार्थ :

टिप्पणी :९−(इमम्) दृश्यमानम् (बिभर्भि) धरामि (सुकृतम्) दृढनिर्मितम् (ते) तुभ्यम् (अङ्कुशम्) आयुधविशेषम् (येन) कारणेन (आरुजासि) आरुजसि। आभिमुख्येन पीडयसि (मघवन्) हे धनवन् (शफारुजः) अ० ८।३।२१। शम शान्तौ-अच्, मस्य फः, शफ+आ+रुजो भङ्गे-क्विप्। शान्तिसम्भञ्जकान् (अस्मिन्) (सु) सुष्ठु (ते) तव (सवने) ऐश्वर्ये (अस्तु) (ओक्यम्) ओकः। निवासः (सुते) संस्कृते तत्त्वरसे (इष्टौ) यज्ञे। देवपूजादिव्यवहारे (मघवन्) (बोधि) अबोधि। ज्ञायते (आभगः) समन्ताद् ऐश्वर्यम् ॥