Samveda/549
अभी नो वाजसातम रयिमर्ष शतस्पृहम्। इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम्॥५४९
Veda : Samveda | Mantra No : 549
In English:
Seer : ambariiSho vaarShaagiraH RRijiShvaa bhaaradvaajashch | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : abhii no vaajasaatama.m rayimarSha shataspRRiham . indo sahasrabharNasa.m tuvidyumna.m vibhaasaham.549
Component Words : abhi. naH. vaajasaatamam.vaaja.saatamam. rayim.arSha. shataspRRiham.shata.spRRiham. indo. sahasrabharNasam.sahasra.bharNasam. tuvidyumnam.tuvi.dyumnam. vibhaasaham .vibhaa.saham. .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : अम्बरीषो वार्षागिरः ऋजिष्वा भारद्वाजश्च | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अगले मन्त्र में सोम परमात्मा से धन की प्रार्थना है।
पदपाठ : अभि। नः। वाजसातमम्।वाज।सातमम्। रयिम्।अर्ष। शतस्पृहम्।शत।स्पृहम्। इन्दो। सहस्रभर्णसम्।सहस्र।भर्णसम्। तुविद्युम्नम्।तुवि।द्युम्नम्। विभासहम् ।विभा।सहम्। ५।
पदार्थ : हे (इन्दो) आनन्दरस से आर्द्र करनेवाले परमात्मन् ! आप (वाजसातमम्) अतिशय बल के प्रदाता, (शतस्पृहम्) बहुतों से स्पृहणीय, (सहस्रभर्णसम्) सहस्र गुणों को धारण करानेवाले अथवा सहस्रों जनों का पोषण करनेवाले, (तुविद्युम्नम्) बहुत यश को देनेवाले, (विभासहम्) शत्रु के प्रताप को अभिभूत करनेवाले (रयिम्) आध्यात्मिक तथा भौतिक ऐश्वर्य को (नः) हमें (अभि अर्ष) प्राप्त कराइए ॥५॥
भावार्थ : परमात्मा की कृपा से और अपने पुरुषार्थ से सब लोग सत्य, अहिंसा, अणिमा, महिमा, लघिमा आदि आध्यात्मिक तथा सोना, चाँदी, मणि, मोती आदि भौतिक धन प्राप्त कर सकते हैं, जिससे वे आत्मिक और शारीरिक बल, सहस्रों गुण, सहस्रों के पोषण का सामर्थ्य और कीर्ति प्राप्त करने में तथा शत्रु के तेज को परास्त करने में समर्थ हो जाते हैं ॥५॥
In Sanskrit:
ऋषि : अम्बरीषो वार्षागिरः ऋजिष्वा भारद्वाजश्च | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः
विषय : अथ सोमं परमात्मानं धनं प्रार्थयते।
पदपाठ : अभि। नः। वाजसातमम्।वाज।सातमम्। रयिम्।अर्ष। शतस्पृहम्।शत।स्पृहम्। इन्दो। सहस्रभर्णसम्।सहस्र।भर्णसम्। तुविद्युम्नम्।तुवि।द्युम्नम्। विभासहम् ।विभा।सहम्। ५।
पदार्थ : हे (इन्दो) आनन्दरसेन क्लेदक परमात्मन् ! त्वम् (वाजसातमम्) अतिशयेन बलस्य प्रदातारम्। वाजं बलं सनोति ददातीति वाजसाः, वाजोपपदात् षणु दाने धातोः ‘जनसनखनक्रमगमो विट्। अ० ३।२।६७’ इति नकारस्यात्वम्। ततोऽतिशायने तमप् प्रत्ययः। (शतस्पृहम्) बहुभिः स्पृहणीयम् (सहस्रभर्णसम्२) सहस्रगुणानां धारयितारम्, यद्वा सहस्राणां जनानां पोषयितारम्। सहस्रं बिभर्तीति सहस्रभर्णाः तम्। (तुविद्युम्नम्) बहुयशस्करम्। (विभासहम्३) शत्रुप्रतापस्य अभिभावकम्। विभां शात्रवं तेजः सहते पराभवतीति तम्। (रयिम्) आध्यात्मिकं भौतिकं च ऐश्वर्यम् (नः) अस्मान् (अभि अर्ष) प्रापय। संहितायाम् ‘अभी’ इति दीर्घश्छान्दसः ॥५॥
भावार्थ : परमात्मनः कृपया स्वपुरुषार्थेन च सर्वैः सत्याहिंसाऽणिममहिमलघिमादिकमाध्यात्मिकं स्वर्णरजतमणि- मुक्तादिकं भौतिकं च धनं प्राप्तुं शक्यते, येनात्मिकं शारीरं च बलं, सहस्रगुणगणं, सहस्राणां पोषणसामर्थ्यं, कीर्तिं चाप्तुं शत्रूणां तेजः पराभवितुं च ते क्षमन्ते ॥५॥
टिप्पणी:१. ऋ० ९।९८।१, ‘अभी, शतस्पृहम्, विभासहम्’ इत्यत्र क्रमेण ‘अभि, पुरुस्पृहम्, विभ्वासहम्’ इति पाठः। साम० १२३८।२. सहस्रभर्णसं बहूनां पोषकम्—इति भ०। बहुविधभरणम् अनेकपोषणयुक्तमित्यर्थः—इति सा०।३. विभासहं विदीप्तीनां शत्रूणाम् अभिभवितारम्—इति भ०। महतः प्रकाशस्याभिभवितारम् अतितेजस्विनमित्यर्थः—इति सा०।