Samveda/613
अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन्। त्रिधातुरर्को रजसो विमानोऽजस्रं ज्योतिर्हविरस्मि सर्वम्॥६१३
Veda : Samveda | Mantra No : 613
In English:
Seer : vishvaamitro gaathinaH | Devta : aatmaa agnirvaa | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : agnirasmi janmanaa jaatavedaa ghRRita.m me chakShuramRRita.m ma aasan . tridhaaturarko rajaso vimaano.ajasra.m jyotirhavirasmi sarvam.613
Component Words : agniH. asmi. janmanaa. jaatavedaaH.jaata.vedaaH. ghRRitam. me. chakShuH. amRRitam.a. mRRitam.me. aasan. tridhaatuH.tri.dhaatuH.arkaH. rajasaH. vimaanaH.vi.maanaH. ajasram.a.jasram.. jyotiH. haviH.asmi. sarvam..
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : विश्वामित्रो गाथिनः | देवता : आत्मा अग्निर्वा | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले दो मन्त्रों का अग्नि देवता है। इस मन्त्र में परमात्मा और जीवात्मा अपना परिचय दे रहे हैं।
पदपाठ : अग्निः। अस्मि। जन्मना। जातवेदाः।जात।वेदाः। घृतम्। मे। चक्षुः। अमृतम्।अ। मृतम्।मे। आसन्। त्रिधातुः।त्रि।धातुः।अर्कः। रजसः। विमानः।वि।मानः। अजस्रम्।अ।जस्रम्।। ज्योतिः। हविः।अस्मि। सर्वम्।१२।
पदार्थ : प्रथम—परमात्मा के पक्ष में। मैं परमात्मा (अग्निः अस्मि) सबका अग्रनायक और अग्नि के समान प्रकाशक होने से अग्नि नामवाला हूँ, (जन्मना) स्वरूप से ही (जातवेदाः) सर्वज्ञ, सर्वव्यापक, वेदों का प्रकाशक तथा सब धनों का उत्पादक हूँ। (मे) मेरी (चक्षुः) आँख अर्थात् देखने की शक्ति (घृतम्) अत्यन्त तीव्र है। (मे) मेरे (आसन्) मुख में (अमृतम्) अमृत है, मैं सदा अमृतत्व का आस्वादन करता रहता हूँ अर्थात् अमर हूँ। मैं (त्रिधातुः) जगत् की सृष्टि, स्थिति तथा संहार रूप तीनों क्रियाओं को करनेवाला हूँ, मैं (अर्कः) अर्चनीय हूँ। मैं (रजसः) सूर्य, चन्द्र, तारे, पृथिवी आदि लोकों का (विमानः) निर्माता अथवा अधिष्ठाता, (अजस्रं ज्योतिः) अक्षय तेजवाला, (हविः) सबका आह्वानयोग्य, और (सर्वम्) सर्वशक्तिमान् (अस्मि) हूँ ॥यहाँ ‘मैं अमर हूँ’ इस व्यङ्ग्यार्थ को ही ‘मेरे मुख में अमृत है’ इस रूप में अभिहित करने से पर्यायोक्त अलङ्कार है ॥द्वितीय—जीवात्मा के पक्ष में । शरीरधारी जीवात्मा कह रहा है—मैं (अग्निः अस्मि) आग हूँ, आग के समान प्रकाशक तथा दुर्गुणों और दुर्जनों को भस्म करनेवाला हूँ, (जन्मना) आचार्य के गर्भ से द्वितीय जन्म पाने के आरम्भ से ही (जातवेदाः) वेदविद्या का विद्वान् हूँ। (मे चक्षुः) मेरी आँख में (घृतम्) स्नेह है, अर्थात् मैं सबको स्नेहयुक्त आँख से देखता हूँ। (मे आसन्) मेरे मुख में (अमृतम्) अमृत अर्थात् वाणी का माधुर्य है। मैं (त्रिधातुः) सत्त्व-रजस्-तमस्, जाग्रत्-स्वप्न-सुषुप्ति, तप-स्वाध्याय-ईश्वरप्रणिधान, ऋग्-यजुः-साम आदि त्रिगणों से युक्त हूँ। मैं (अर्कः) परमेश्वर की अर्चना करनेवाला, सदाचारी तथा विद्यावृद्धों एवं वयोवृद्धों का सत्कार करनेवाला और सूर्य के समान तेजस्वी हूँ। मैं (रजसः) ग्रह-उपग्रह, सूर्य आदि लोकों को (विमानः) खगोल-गणित द्वारा मापने आदि में समर्थ, (अजस्रं ज्योतिः) अक्षय ज्योतिवाला और (सर्वं हविः) श्रेष्ठ उद्देश्य के लिए सर्वस्व बलिदान कर देनेवाला (अस्मि) हूँ ॥१२॥इस मन्त्र में ‘अग्निः अस्मि, अर्कः अस्मि’, ‘मैं आग हूँ, मैं सूर्य हूँ’ इस अर्थ में रूपकालङ्कार है। ‘अजस्रं ज्योतिः’ की ‘अजस्र ज्योतिवाले’ में और ‘सर्वं हविः’ की ‘सर्वस्व हवि देनेवाले’ में लक्षणा है। निरुक्तप्रोक्त त्रिविध ऋचाओं परोक्षकृत, प्रत्यक्षकृत तथा आध्यात्मिक में से यह ऋचा आध्यात्मिक है ॥१२॥
भावार्थ : परमेश्वर के समान मनुष्य का आत्मा भी बहुत-से विशिष्ट गुणोंवाला तथा महाशक्ति-सम्पन्न है। अतः उसे चाहिए कि महत्त्वाकांक्षी होकर महान् कर्मों में कदम रखे ॥१२॥
In Sanskrit:
ऋषि : विश्वामित्रो गाथिनः | देवता : आत्मा अग्निर्वा | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ द्वयोरग्निर्देवता। अत्र परमात्मा जीवात्मा च स्वपरिचयं ददाति।
पदपाठ : अग्निः। अस्मि। जन्मना। जातवेदाः।जात।वेदाः। घृतम्। मे। चक्षुः। अमृतम्।अ। मृतम्।मे। आसन्। त्रिधातुः।त्रि।धातुः।अर्कः। रजसः। विमानः।वि।मानः। अजस्रम्।अ।जस्रम्।। ज्योतिः। हविः।अस्मि। सर्वम्।१२।
पदार्थ : प्रथमः—परमात्मपक्षे। अहं परमेश्वरः (अग्निः अस्मि) सर्वेषामग्रणीत्वाद् अग्निवत् प्रकाशकत्वाच्च अग्निनामा वर्ते, (जन्मना) स्वरूपेणैव (जातवेदाः) सर्वज्ञः, सर्वव्यापकः, वेदानां प्रकाशकः, सर्ववित्तोत्पादकश्च अस्मि। (मे) मम (चक्षुः) चक्षुरुपलक्षितं दर्शनसामर्थ्यम् (घृतम्) अतीव प्रदीप्तं तीव्रं वा वर्तते। (घृ) क्षरणदीप्त्योः, अत्र दीप्त्यर्थः। (मे) मम (आसन्) आसनि मुखे। अत्र ‘सुपां सुलुक्। अ० ७।१।३९’ इति विभक्तेर्लुक्। (अमृतम्) अमृतरसः सदा विद्यमानो भवति, नित्यमहम् अमृतत्वमास्वादयामि, अमरोऽस्मीत्यर्थः। अहम् (त्रिधातुः) त्रयः धातवः क्रियाः सृष्टिस्थितिसंहृतयः यस्मात् तादृशः, (अर्कः) अर्चनीयः। अर्को देवो भवति यदेनमर्चन्ति। निरु० ५।५। (रजसः) सूर्यचन्द्रतारापृथिव्यादिलोकसमूहस्य। लोका रजांस्युच्यन्ते। निरु० ४।१९। (विमानः२) निर्माता अधिष्ठाता वा, (अजस्रं ज्योतिः) अक्षयं तेजः, अक्षयतेजोमयः इत्यर्थः, (हविः) सर्वेषाम् आह्वानयोग्यः। आहूयते इति हविः। ‘अर्चिशुचिहुसृ०। उ० २।११०’ इति हु धातोः इसि प्रत्ययः प्रोक्तः, स ह्वेञ् धातोरपि ज्ञेयः। ‘बहुलं छन्दसि। अ० ६।१।३४’ इति ह्वः सम्प्रसारणम्। (सर्वम्) सर्वशक्तिमांश्च (अस्मि) वर्ते ॥अत्र ‘अमरोऽस्मि’ इति व्यङ्ग्यार्थस्यैव ‘अमृतं म आसन्’ इति भङ्ग्यन्तरेणाभिधानात् पर्यायोक्तालङ्कारः३ ॥अथ द्वितीयः—जीवात्मपरः। देहधारी जीवात्मा ब्रवीति—अहम् (अग्निः अस्मि) वह्निः अस्मि, वह्निरिव प्रकाशको दुर्गुणानां दुर्जनानां च दाहकः अस्मि, (जन्मना) आचार्यगर्भाद् द्वितीयजन्मप्राप्तेरारभ्यैव (जातवेदाः) प्राप्तवेदविज्ञानः अस्मि। (मे चक्षुः) मम चक्षुषि (घृतम्) स्नेहः अस्ति, सर्वानहं स्निग्धेन चक्षुषा पश्यामीत्यर्थः। (मे आसन्) मम मुखे (अमृतम्) पीयूषं, वाङ्माधुर्यं विद्यते। चक्षुः, आसन् इत्युभयत्र ‘सुपां सुलुक्० अ० ७।१।३९’ इति सप्तम्या लुक्। अहम् (त्रिधातुः) सत्त्वरजस्तमो-जाग्रत्स्वप्नसुषुप्तितपःस्वाध्यायेश्वरप्रणिधानऋग्यजुः- सामादिरूपत्रिधातुमयः, (अर्कः) परमेश्वरस्य (अर्चकः), सदाचारिणां विद्यावयोवृद्धानां च सत्कर्ता, सूर्यसमतेजस्कः, (रजसः) ग्रहोपग्रहसूर्यादिलोकानाम् (विमानः) परिमाणादिकरणे समर्थः, (अजस्रं ज्योतिः) अक्षयज्योतिर्मयः, (सर्वं हविः) सदुद्देश्याय सर्वस्वबलिदानकर्ता च (अस्मि) वर्ते ॥१२॥४अत्र ‘अग्निः (वह्निः) अस्मि, अर्कः (सूर्यः) अस्मि’ इति रूपकालङ्कारः। ‘अजस्रं ज्योतिः’ इत्यस्य अजस्रज्योतिर्मये लक्षणा। एवं ‘सर्वं हविः’ इत्यस्य सर्वस्वहविर्दातरि लक्षणा। निरुक्तप्रोक्तासु त्रिविधासु ऋक्षु आध्यात्मिकीयम् ऋक् ॥१२॥
भावार्थ : परमेश्वर इव मनुष्यस्यात्मापि बहुविशिष्टगुणो महाशक्तिसम्पन्नश्च वर्तते। तेन महत्त्वाकाङ्क्षिणा भूत्वा महत्सु कर्मसु पदं निधेयम् ॥१२॥
टिप्पणी:१. ऋ० ३।२६।७, य० १८।६६, उभयत्र ‘अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम’ इति पाठः। यजुषि देवश्रवोदेववातौ ऋषी।२. ‘रजसो विमानः, रज उदकं तस्य निर्माता। विमिमीते इति विमानः। नन्द्यादित्वात् कर्तरि ल्युट्’ इति य० १८।६६ भाष्ये महीधरः। विमानः विमाता अधिष्ठातास्मि—इति सा०।३. पर्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते (सा० द० १०।६०) इति तल्लक्षणात्।४. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये ‘विद्युद्वद् मनुष्यैर्वर्तितव्यम्’ इति विषये, यजुर्भाष्ये च ‘यज्ञेन किं जायते’ इति विषये व्याख्यातवान्।