Samveda/727
यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः। न्यस्मिं दध्र आ मनः(दि)।।॥७२७
Veda : Samveda | Mantra No : 727
In English:
Seer : irimbiThiH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : yaste shRRi~NgavRRiSho NapaatpraNapaatkuNDapaayyaH . nyasmi.m dadhra aa manaH.727
Component Words : yaH . te . shRRi~NgavRRiShaH . shRRi~Nga . vRRiShaH . napaat . praNapaat . pra . napaata . kuNDapaayyaH . kuNDa . paayya . ni . asmin . dadhre . aa . manaH .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : इरिम्बिठिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में पुनः उसी विषय का वर्णन है।
पदपाठ : यः । ते । शृङ्गवृषः । शृङ्ग । वृषः । नपात् । प्रणपात् । प्र । नपात । कुण्डपाय्यः । कुण्ड । पाय्य । नि । अस्मिन् । दध्रे । आ । मनः ॥
पदार्थ : हे (शृङ्गवृषः नपात्) रश्मियों से वर्षा करनेवाले सूर्य को बिना ही आधार के आकाश में स्थिर करनेवाले जगदीश्वर ! (यः ते) जो आपका (प्र नपात्) प्रकृष्ट रूप से रक्षक (कुण्डपाय्यः) समुद्ररूप कुण्ड जिसमें सूर्य द्वारा पिये जाते हैं, ऐसा वृष्टिरूप यज्ञ है, (अस्मिन्) इसमें, उपासक लोग (मनः) अपने मन को (आ निदध्रे) निहित करते हैं ॥३॥
भावार्थ : जैसे सूर्य समुद्ररूप कुण्डों को पीकर बादल बना कर वर्षा करता है, वैसे ही मनुष्यों को चाहिए कि धन कमाकर और योगसिद्धियाँ प्राप्त करके सत्पात्रों में उनकी वर्षा करें ॥३॥
In Sanskrit:
ऋषि : इरिम्बिठिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ पुनस्तमेव विषयमाह।
पदपाठ : यः । ते । शृङ्गवृषः । शृङ्ग । वृषः । नपात् । प्रणपात् । प्र । नपात । कुण्डपाय्यः । कुण्ड । पाय्य । नि । अस्मिन् । दध्रे । आ । मनः ॥
पदार्थ : हे (शृङ्गवृषः नपात्२) शृङ्गैः रश्मिभिः वर्षतीति शृङ्गवृट् सूर्यः तस्य न पातयितः निरालम्बमेव गगने स्थापयितः जगदीश्वर ! (यः ते) यः तव (प्र नपात्) प्रकर्षेण न पातयिता, प्रत्युत रक्षकः, (कुण्डपाय्यः३) समुद्ररूपाणि कुण्डानि पीयन्ते यस्मिन् तादृशः वृष्टिरूपो यज्ञः अस्ति। [‘क्रतौ कुण्डपाय्यसंचाय्यौ’ अ० ३।१।१३० इत्यनेन क्रत्वर्थे निपात्यते।] (अस्मिन्) एतस्मिन् उपासकाः (मनः) स्वीयचित्तम् (आ निदध्रे) आ निदधिरे, निहितं कुर्वन्ति। [‘इरयो रे’। अ० ६।४।७६ इति इरे इत्यस्य रे भावः] ॥३॥
भावार्थ : यथा सूर्यः समुद्रकुण्डानि पीत्वा मेघान् निर्माय वृष्टिं करोति तथैव जनैरपि धनान्यर्जयित्वा योगसिद्धीश्च प्राप्य सत्पात्रेषु तद्वृष्टिर्विधेया ॥३॥
टिप्पणी:१. ऋ० ८।१७।१३, अथ० २०।५।७।२. गृणन्ति हिंसन्तीति शृङ्गाणि रश्मयः तैर्वर्षतीति शृङ्गवृड् आदित्यः, तस्य न पातयितः स्वकीयेऽवस्थानेऽवस्थापयितः। ‘सुबामन्त्रिते’ पा० २।१।२ इति षष्ठ्यन्तस्य पराङ्गवद्भावेनामन्त्रितानुप्रवेशात् समुदायस्याष्टमिकं सर्वानुदात्तत्वम्—इति सा०।३. कुण्डैः पीयते अस्मिन् सोम इति कुण्डपाय्यः क्रतुविशेषः—इति सा०। अत्र कुण्डाश्चमसाः कुण्डप्रतिरूपाः तैः पीयते कुण्डपाय्यः—इति वि०।