Samveda/816
जघ्निर्वृत्रममित्रियसस्निर्वाजं दिवेदिवे। गोषातिरश्वसा असि॥८१६
Veda : Samveda | Mantra No : 816
In English:
Seer : ahamiiyuraa.mgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : jaghnirvRRitramamitriya.m sasnirvaaja.m divedive . goShaatirashvasaa asi.816
Component Words : jaghriH .vRRitram .amitriyam .a .mitriyam .sasniH .vaajam .divedive .dive .dive .goShaatiH .go .saatiH .ashvasaaH .ashva .saaH .asi.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में परमेश्वर और आचार्य का वर्णन है।
पदपाठ : जघ्रिः ।वृत्रम् ।अमित्रियम् ।अ ।मित्रियम् ।सस्निः ।वाजम् ।दिवेदिवे ।दिवे ।दिवे ।गोषातिः ।गो ।सातिः ।अश्वसाः ।अश्व ।साः ।असि॥
पदार्थ : हे पवमान सोम अर्थात् पवित्रकर्त्ता सद्बुद्धिप्रेरक परमात्मन् वा आचार्य ! आप (आमित्रियम्) शत्रु से आनेवाले (वृत्रम्) पाप के (जघ्निः) नष्ट करनेवाले, (दिवेदिवे) प्रतिदिन (वाजम्) बल को (सस्निः) शुद्ध करनेवाले, (गोषातिः) भूमियों, गायों वा वाणियों के दाता और (अश्वसाः) घोड़ों वा प्राणों के दाता (असि) हो ॥२॥
भावार्थ : जगदीश्वर के समान गुरु भी पाप आदियों का विनाशक, आत्मबल, मनोबल, बुद्धिबल, चित्तबल आदि को पवित्र करनेवाला, समस्त वाङ्मय को पढ़ानेवाला और प्राणों को परिष्कृत करनेवाला होवे ॥२॥
In Sanskrit:
ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ परमेश्वरमाचार्यं च वर्णयति।
पदपाठ : जघ्रिः ।वृत्रम् ।अमित्रियम् ।अ ।मित्रियम् ।सस्निः ।वाजम् ।दिवेदिवे ।दिवे ।दिवे ।गोषातिः ।गो ।सातिः ।अश्वसाः ।अश्व ।साः ।असि॥
पदार्थ : हे पवमान सोम पवित्रकर्त्तः सद्बुद्धिप्रेरक परमात्मन् आचार्य वा ! त्वम् (अमित्रियम्) अमित्रादागतम् (वृत्रम्) पापम् (जघ्निः) हन्ता, (दिवेदिवे) प्रतिदिनम् (वाजम्) बलम् (सस्निः) शोधकः। [जघ्निः, सस्निः इत्यत्र हन् हिंसागत्योः ष्णा शौचे ण्यन्तः इत्यनयोः ‘आगमहनजनः किकिनौ लिट् च।’अ० ३।२।१७१ इत्यनेन किन् प्रत्ययः लिड्वद्भावश्च।] (गोषातिः) गवां भूमीनां धेनूनां वाचां वा दाता। [गवां सातिः प्राप्तिः यस्मात् स गोषातिः।] (अश्वसाः) अश्वानां, प्राणानां वा दाता च। [अश्वान् सनोतीति अश्वसाः। अश्वपूर्वात् सनोतेः ‘जनसनखनक्रमगमो विट्’। अ० ३।२।६७ इति विट् प्रत्ययः ‘विड्वनोरनुनासिकस्यात्’ अ० ६।४।४१ इत्यनुनासिकस्य आत्वम्।] (असि) विद्यसे ॥२॥
भावार्थ : जगदीश्वर इव गुरुरपि पापादीनां हन्ताऽऽत्मबलमनोबलबुद्धिबल- चित्तबलादीनां पवित्रयिता, निखिलस्य वेदवाङ्मयस्याध्यापयिता, प्राणानां परिष्कर्त्ता च भवेत् ॥२॥
टिप्पणी:१. ऋ० ९।६१।२०, ‘गो॒षा उ॑ अश्व॒सा अ॑सि’ इति तृतीयः पादः।