Samveda/887
उभयतः पवमानस्य रश्मयो ध्रवस्य सतः परि यन्ति केतवः। यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति॥८८७
Veda : Samveda | Mantra No : 887
In English:
Seer : akRRiShTaa maaShaaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : ubhayataH pavamaanasya rashmayo dhruvasya sataH pari yanti ketavaH . yadii pavitre adhi mRRijyate hariH sattaa ni yonau kalasheShu siidati.887
Component Words : ubhayataH .pavamaanasya .rashmayaH .dhruvasya .sataH .pari .yanti .ketavaH. yadi .pavitre .adhi .mRRijyate .hariH .sattaa .ni .yonau .kalasheShu .siidati.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : अकृष्टा माषाः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अगले मन्त्र में परमात्मा तथा उससे रचित सूर्य का विषय है।
पदपाठ : उभयतः ।पवमानस्य ।रश्मयः ।ध्रुवस्य ।सतः ।परि ।यन्ति ।केतवः। यदि ।पवित्रे ।अधि ।मृज्यते ।हरिः ।सत्ता ।नि ।योनौ ।कलशेषु ।सीदति॥
पदार्थ : प्रथम—सूर्य के पक्ष में। (ध्रुवस्य सतः) आकाश में स्थिर रूप से विद्यमान (पवमानस्य) पवित्रकर्ता सूर्य की (केतवः) प्रकाशक (रश्मयः) किरणें (उभयतः) भूगोल के दोनों गोलार्धों में परियन्ति) पहुँचती हैं। (यदि) जब (हरिः) रसों को हरनेवाला किरण-समूह (पवित्रे अधि) अन्तरिक्ष में (मृज्यते) भेजा जाता है, तब (योनौ सत्ता) अन्तरिक्ष में स्थित वह (कलशेषु) मङ्गल, बुध, चन्द्रमा आदि ग्रहोपग्रह-रूप कलशों में (नि षीदति) पहुँचता है और पहुँचकर उन्हें प्रकाशित करता है ॥द्वितीय—परमात्मा के पक्ष में। (ध्रुवस्य सतः) स्थिर, अजर, अमर, सनातन (पवमानस्य) पवित्रकर्ता परमात्मा की (केतवः) प्रज्ञापक (रश्मयः) दिव्य प्रकाश-किरणें (उभयतः) प्रातः-सायं दोनों कालों में, संध्या-वन्दन के समय (परि यन्ति) उपासक को प्राप्त होती हैं। (यदि) जब (हरिः) दोषों का हर्ता परमात्मा (पवित्रे अधि) पवित्र हृदय के अन्दर (मृज्यते) भक्तिभावरूप अलङ्कारों से अलङ्कृत होता है, तब (योनौ सत्ता) हृदयरूप घर में स्थित वह (कलशेषु) अन्नमय, प्राणमय, मनोमय आदि कोशों में (निषीदति) स्थिति-लाभ करता है, और वहाँ स्थित होता हुआ आत्मा, मन, बुद्धि आदि सबको प्रभावित करता है ॥२॥इस मन्त्र में श्लेषालङ्कार है ॥२॥
भावार्थ : जैसे सोमरस दशापवित्र नामक छन्नी के मार्ग से होता हुआ द्रोणकलशों में स्थित होता है और जैसे सूर्य-रश्मि अन्तरिक्ष-मार्ग से ग्रहोपग्रहों में स्थित होती है, वैसे ही परमेश्वर हृदय-मार्ग से देहस्थ पञ्च कोशों में स्थित होता है ॥२॥
In Sanskrit:
ऋषि : अकृष्टा माषाः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अथ परमात्मनस्तद्रचितस्य सूर्यस्य च विषयमाह।
पदपाठ : उभयतः ।पवमानस्य ।रश्मयः ।ध्रुवस्य ।सतः ।परि ।यन्ति ।केतवः। यदि ।पवित्रे ।अधि ।मृज्यते ।हरिः ।सत्ता ।नि ।योनौ ।कलशेषु ।सीदति॥
पदार्थ : प्रथमः—सूर्यपक्षे। (ध्रुवस्य सतः) दिवि स्थिररूपेण विद्यमानस्य (पवमानस्य) शोधकस्य सूर्यस्य (केतवः) प्रकाशकाः (रश्मयः) किरणाः (उभयतः) भूगोलस्य उभयोः गोलार्धयोः (परि यन्ति) परिगच्छन्ति। (यदा) यदा (हरिः) रसानां हर्ता किरणसमूहः (पवित्रे अधि) अन्तरिक्षे। [अन्तरिक्षं वै पवित्रम्। काठ सं० २६।१०।] (मृज्यते) प्रेष्यते। [मार्ष्टिः गतिकर्मा। निघं० २।१४।] तदा (योनौ सत्ता) अन्तरिक्षे स्थितः सः। [योनिरन्तरिक्षम् इति निरुक्तम् २।८।] (कलशेषु) मङ्गलबुधचन्द्रादिषु ग्रहोपग्रहेषु (निषीदति) निगच्छति, गत्वा च तान् प्रकाशितान् करोति। [षदलृ विशरणगत्यवसादनेषु, भ्वादिः] ॥द्वितीयः—परमात्मपक्षे। (ध्रुवस्य सतः) स्थिरस्य अजरामरस्य सनातनस्य सतः (पवमानस्य) पवित्रताकरस्य परमात्मनः (केतवः) प्रज्ञापकाः (रश्मयः) दिव्यप्रकाशकिरणाः (उभयतः) उभयोः कालयोः प्रातः सायं च सन्ध्यावन्दनसमये (परि यन्ति) उपासकं परि प्राप्नुवन्ति। (यदि) यदा (हरिः) दोषापहारकः परमात्मा (पवित्रे अधि) पवित्रहृदयाभ्यन्तरे (मृज्यते) भक्तिभावरूपैरलङ्कारैरलङ्क्रियते तदा (योनौ सत्ता) हृदयगृहे स्थितः सः। [योनिरिति गृहनाम निघं० ३।४।] (कलशेषु) अन्नमयप्राणमयमनोमयादिकोशेषु (निषीदति) निषदनं करोति, तत्र निषण्णश्च आत्ममनोबुद्ध्यादीनि सर्वाणि प्रभावयति ॥२॥अत्र श्लेषालङ्कारः ॥२॥
भावार्थ : यथा सोमरसो दशापवित्रमार्गेण द्रोणकलशेषु तिष्ठति, यथा वा सूर्यरश्मिरन्तरिक्षमार्गेण ग्रहोपग्रहेषु निषीदति तथैव परमेश्वरो हृदयमार्गेण देहस्थपञ्चकोशेषु तिष्ठति ॥२॥
टिप्पणी:१. ऋ० ९।८६।६, ‘योनौ’ इत्यत्र ‘योना॑’ इति पाठः।