Donation Appeal
Choose Mantra
Samveda/888

विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः। व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि (वी)।। [धा. । उ नास्ति । स्व. ।]॥८८८

Veda : Samveda | Mantra No : 888

In English:

Seer : akRRiShTaa maaShaaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : vishvaa dhaamaani vishvachakSha RRibhvasaH prabhoShTe sataH pari yanti ketavaH . vyaanashii pavase soma dharmaNaa patirvishvasya bhuvanasya raajasi.888

Component Words :
vishvaa .dhaamaani .vishvachakShaH .vishva .chakShaH .RRibhvasaH .prabhoH .pra .bhoH .te .sataH .pari .yanti .ketavaH .vyaanashii .vi .aanashii .pavase .soma. dharmaNaa. patiH .vishvasya .bhuvanasya .raajasi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अकृष्टा माषाः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में परमेश्वर का वर्णन है।

पदपाठ : विश्वा ।धामानि ।विश्वचक्षः ।विश्व ।चक्षः ।ऋभ्वसः ।प्रभोः ।प्र ।भोः ।ते ।सतः ।परि ।यन्ति ।केतवः ।व्यानशी ।वि ।आनशी ।पवसे ।सोम। धर्मणा। पतिः ।विश्वस्य ।भुवनस्य ।राजसि॥

पदार्थ : हे (विश्वचक्षः) विश्वद्रष्टा परमेश ! (ऋभ्वसः) सूर्यकिरणों को ग्रहोपग्रहों में फेंकनेवाले अथवा बुद्धिमान् उपासकों को अपनी शरण में लेनेवाले (प्रभोः सतः) समर्थ होते हुए (ते) आपकी (केतवः) प्रज्ञाएँ (विश्वा धामानि) सब लोकों में (परि यन्ति) पहुँचती हैं, अर्थात् सब लोकों में आपका बुद्धिकौशल दिखायी देता है। हे (सोम) पवित्रकर्ता परमात्मन् ! (व्यानशी) सर्वान्तर्यामी आप (धर्मणा) अपने धर्म अर्थात् गुण-कर्म-स्वभाव से (पवसे) सबको पवित्र करते हो। (विश्वस्य) सम्पूर्ण (भूमनः) ब्रह्माण्ड के (पतिः) अधीश्वर आप (राजसि) अत्यधिक शोभा पाते हो ॥३॥श्लेष से इस मन्त्र की सूर्य के पक्ष में भी योजना करनी चाहिए ॥३॥

भावार्थ : जैसे सूर्य की किरणें ग्रह-उपग्रह आदियों में दिखायी देती हैं, वैसे ही परमात्मा के बुद्धि-कौशल सर्वत्र दिखायी देते हैं। जैसे सूर्य सबको पवित्र करता है, वैसे ही परमेश्वर भी करता है। जैसे सूर्य सौर-लोक का अधिपति है, वैसे ही परमेश्वर समस्त ब्रह्माण्ड का अधिपति है ॥३॥


In Sanskrit:

ऋषि : अकृष्टा माषाः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अथ परमेश्वरो वर्ण्यते।

पदपाठ : विश्वा ।धामानि ।विश्वचक्षः ।विश्व ।चक्षः ।ऋभ्वसः ।प्रभोः ।प्र ।भोः ।ते ।सतः ।परि ।यन्ति ।केतवः ।व्यानशी ।वि ।आनशी ।पवसे ।सोम। धर्मणा। पतिः ।विश्वस्य ।भुवनस्य ।राजसि॥

पदार्थ : हे (विश्वचक्षः) विश्वद्रष्टः परमेश ! (ऋभ्वसः२) ऋभून् आदित्यरश्मीन् अस्यति क्षिपति ग्रहोपग्रहादिषु यः स ऋभ्वाः तस्य, यद्वा ऋभून् मेधाविन उपासकान् असति स्वशरणे आदत्ते यः स ऋभ्वाः तस्य। [आदित्यरश्मयोऽप्यृभव उच्यन्ते। निरु० ११।१६। असु क्षेपणे दिवादिः। ऋभुरिति मेधाविनाम। निघं० ३।१५। अस गतिदीप्त्यादानेषु भ्वादिः।] (प्रभोः सतः) समर्थस्य सतः (ते) तव (केतवः) प्रज्ञाः। [केतुः इति प्रज्ञानाम। निघं० ३।९।] (विश्वा धामानि) सर्वान् लोकान् (परि यन्ति) परिगच्छन्ति, सर्वेषु लोकेषु तव बुद्धिकौशलं दरीदृश्यते इति भावः। हे (सोम) पावक परमात्मन् ! (व्यानशी) सर्वान्तर्यामी। [व्याङ्पूर्वाद् नशतेर्व्याप्तिकर्मणो रूपम्। नशत् इति व्याप्तिकर्मसु पठितम्। निघं० २।१८।] त्वम् (धर्मणा) स्वकीयेन गुणकर्मस्वभावेन (पवसे) सर्वान् पुनासि। (विश्वस्य) सकलस्य (भूमनः) ब्रह्माण्डस्य (पतिः) अधीश्वरः त्वम् (राजसि) अतितरां शोभसे ॥३॥श्लेषेण मन्त्रोऽयं सूर्यपक्षेऽपि योजनीयः ॥३॥

भावार्थ : यथा सूर्यस्य किरणाः सर्वेषु ग्रहोपग्रादिषु दृश्यन्ते तथैव परमेश्वरस्य प्रज्ञाकौशलानि सर्वत्र विलोक्यन्ते। यथा सूर्यः सर्वान् पुनाति तथैव परमेश्वरोऽपि। यथा सूर्यः सौरलोकस्य पतिस्तथा परमेश्वरः सकलब्रह्माण्डस्य ॥३॥

टिप्पणी:१. ऋ० ९।८६।५, द्वितीयपादे ‘प्र॒भोस्ते॑’ इति पाठः। ‘व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भिः॒’ इति तृतीय पादः।२. ऋभ्वाः इति महन्नाम—इति सा०। ऋभ्वसः प्रभुत्वस्य—इति वि०। ऋभ्वसम् ऋभून् मनुष्यादीन् पदार्थान् वाऽस्यन्ति येन तम्’ इति ऋ० १।५६।१ भाष्ये, ऋभुं मेधाविनमसते गृह्णाति तम्’ इति च ऋ० ५।५२।८ भाष्ये द०।