Samveda/907
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे। घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः॥९०७
Veda : Samveda | Mantra No : 907
In English:
Seer : suta.mbhara aatreyaH | Devta : agniH | Metre : jagatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : janasya gopaa ajaniShTa jaagRRiviragniH sudakShaH suvitaaya navyase . ghRRitapratiiko bRRihataa divispRRiShaa dyumadvi bhaati bharatebhyaH shuchiH.907
Component Words : janasya .gopaaH .go .paaH .ajaniShTa .jaagRRiviH .agniH .sudakSha .su .dakShaH .suvitaaya .navyase .ghRRitapratiikaH .ghRRita .pratiikaH. bRRihataa .divispRRishaa .divi. spRRishaa. dyumat .vi .bhaati .bharatesyaH. shuchi.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : सुतंभर आत्रेयः | देवता : अग्निः | छन्द : जगती | स्वर : निषादः
विषय : प्रथम ऋचा में परमेश्वर का स्वरूप वर्णित है।
पदपाठ : जनस्य ।गोपाः ।गो ।पाः ।अजनिष्ट ।जागृविः ।अग्निः ।सुदक्ष ।सु ।दक्षः ।सुविताय ।नव्यसे ।घृतप्रतीकः ।घृत ।प्रतीकः। बृहता ।दिविस्पृशा ।दिवि। स्पृशा। द्युमत् ।वि ।भाति ।भरतेस्यः। शुचि॥
पदार्थ : (जागृविः) जागरूक परमेश्वर (जनस्य) सब मनुष्यों का (गोपाः) रक्षक (अजनिष्ट) बना हुआ है।(सुदक्षः) उत्तम बलवाला वह (अग्निः) अग्रनायक परमेश्वर (नव्यसे) अतिशय नवीन (सुविताय) भद्र-प्राप्ति के लिए सहायक होता है। (घृतप्रतीकः)तेजःस्वरूप, (शुचिः) पवित्र वह (भरतेभ्यः) धारणा, ध्यान, समाधि में स्थित जनों के लिए (दिविस्पृशा) आत्मा को छूनेवाले (बृहता) महान् तेज से (द्युमत्) दीप्यमान होता हुआ (वि भाति) शोभित होता है ॥१॥
भावार्थ : तेजःस्वरूप परमेश्वर उपासकों का रक्षक होता हुआ उन्हें दिव्य तेज प्रदान करके कृतार्थ करता है ॥१॥
In Sanskrit:
ऋषि : सुतंभर आत्रेयः | देवता : अग्निः | छन्द : जगती | स्वर : निषादः
विषय : तत्रादौ परमेश्वरस्य स्वरूपमाह।
पदपाठ : जनस्य ।गोपाः ।गो ।पाः ।अजनिष्ट ।जागृविः ।अग्निः ।सुदक्ष ।सु ।दक्षः ।सुविताय ।नव्यसे ।घृतप्रतीकः ।घृत ।प्रतीकः। बृहता ।दिविस्पृशा ।दिवि। स्पृशा। द्युमत् ।वि ।भाति ।भरतेस्यः। शुचि॥
पदार्थ : (जागृविः) जागरूकः परमेश्वरः (जनस्य) सर्वेषां जनानाम् (गोपाः) रक्षकः (अजनिष्ट) जातोऽस्ति।(सुदक्षः) सुबलः सः (अग्निः) अग्रणीः परमेश्वरः (नव्यसे)अतिशयेन नवीनाय (सुविताय) भद्रप्राप्तये सहायको जायते। (घृतप्रतीकः) तेजःस्वरूपः। [घृतं तेजोमयं प्रतीकं रूपं यस्य सः। घृ क्षरणदीप्त्योः।] (शुचिः) पवित्रः सः (भरतेभ्यः२) धारणाध्यानसमाधिस्थेभ्यो जनेभ्यः। [डुभृञ् धारणपोषणयोः इत्यस्मात् ‘भृमृदृशि’ उ० ३।११० इत्यनेन अतच् प्रत्ययः।] (दिविस्पृशा) आत्मस्पर्शिना (बृहता) महता तेजसा (द्युमत्) भासमानः सन् (विभाति) शोभते ॥१॥३
भावार्थ : तेजःस्वरूपः परमेश्वर उपासकानां रक्षकः सन् तान् दिव्यतेजःप्रदानेन कृतार्थयति ॥१॥
टिप्पणी:१. ऋ० ५।११।१, यजु० १५।२७।२. भरत इति ऋत्विङ्नाम। निघं० ३।१८। (भरतेभ्यः) धारणपोषणकृद्भ्यो मनुष्येभ्यः इति ऋ० ५।११।१ भाष्ये द०।३. दयानन्दर्षिणा ऋग्भाष्ये यजुर्भाष्ये च मन्त्रोऽयं क्रमेण पावकपक्षे विद्युत्पक्षे च व्याख्यातः।