Samveda/955
गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः। त्व सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते॥९५५
Veda : Samveda | Mantra No : 955
In English:
Seer : trayaH RRiShayaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : govitpavasva vasuviddhiraNyavidretodhaa indo bhuvaneShvarpitaH . tva.m suviiro asi soma vishvavitta.m tvaa nara upa girema aasate.955
Component Words : govit .go .vit .pavasva .vasuvit .vasu .vit .hiraNyavit .hiraNya .vit. retodhaaH .reta .dhaaH .indo .bhuvaneShu .arpitaH .tvam .suShariH .su .viiraH .asi .soma .vishvavit .vishva .vit .tam .tvaa .naraH .upa .giraa .ime .aasate.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : त्रयः ऋषयः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : प्रथम मन्त्र में सोम नाम से परमात्मा का विषय वर्णित करते हैं।
पदपाठ : गोवित् ।गो ।वित् ।पवस्व ।वसुवित् ।वसु ।वित् ।हिरण्यवित् ।हिरण्य ।वित्। रेतोधाः ।रेत ।धाः ।इन्दो ।भुवनेषु ।अर्पितः ।त्वम् ।सुषरिः ।सु ।वीरः ।असि ।सोम ।विश्ववित् ।विश्व ।वित् ।तम् ।त्वा ।नरः ।उप ।गिरा ।इमे ।आसते॥
पदार्थ : हे (इन्दो) तेजस्वी तथा ऐश्वर्य की वर्षा करनेवाले परमात्मन् ! (गोवित्) गौएँ प्राप्त करानेवाले, (वसुवित्) धन प्राप्त करानेवाले और (हिरण्यवित्) सुवर्ण प्राप्त करानेवाले आप (पवस्व) हमें पवित्र करो। (रेतोधाः) वीर्यप्रदाता आप (भुवनेषु) लोकों में (अर्पितः) व्याप्त हो। हे (सोम) सर्वोत्पादक परमात्मन् ! (त्वम्) आप (सुवीरः) श्रेष्ठ वीर प्राप्त करानेवाले और (विश्ववित्) सर्वज्ञाता (असि) हो। (तं त्वा) ऐसे आपकी (इमे) ये (नरः) उपासक जन (गिरा) स्तुतिवाणी से (उप आसते) उपासना कर रहे हैं ॥१॥
भावार्थ : जगदीश्वर ने ही हमारे उपयोग के लिए बहुमूल्य सब पदार्थ निःशुल्क दिये हुए हैं। ऐसे उपकारक उसको हम कृतज्ञता के साथ स्मरण क्यों न करें ? ॥१॥
In Sanskrit:
ऋषि : त्रयः ऋषयः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अथ सोमनाम्ना परमात्मविषयो वर्ण्यते।
पदपाठ : गोवित् ।गो ।वित् ।पवस्व ।वसुवित् ।वसु ।वित् ।हिरण्यवित् ।हिरण्य ।वित्। रेतोधाः ।रेत ।धाः ।इन्दो ।भुवनेषु ।अर्पितः ।त्वम् ।सुषरिः ।सु ।वीरः ।असि ।सोम ।विश्ववित् ।विश्व ।वित् ।तम् ।त्वा ।नरः ।उप ।गिरा ।इमे ।आसते॥
पदार्थ : हे (इन्दो) तेजस्विन् ऐश्वर्यवर्षक परमात्मन् ! (गोवित्) गवां लम्भकः, (वसुवित्) धनानां लम्भकः, (हिरण्यवित्) सुवर्णानां लम्भकश्च त्वम् (पवस्व) अस्मान् पुनीहि। (रेतोधाः) वीर्यप्रदाता त्वम् (भुवनेषु) लोकेषु (अर्पितः) व्याप्तः असि। हे (सोम)सर्वोत्पादक परमात्मन् ! (त्वम् सुवीरः) श्रेष्ठानां वीराणां प्रापकः (विश्ववित्) सर्वज्ञः च (असि) वर्तसे।(तं त्वा) तादृशं त्वाम् (इमे) एते (नरः) उपासकाः जनाः (गिरा) स्तुतिवाचा (उप आसते) उपतिष्ठन्ते ॥१॥
भावार्थ : जगदीश्वरेणैवास्माकमुपयोगाय बहुमूल्याः सर्वे पदार्था निश्शुल्कं प्रदत्ताः सन्ति। एतावदुपकारकः स कृतज्ञतयाऽस्माभिः कुतो न स्मरणीयः ॥१॥
टिप्पणी:१. ऋ० ९।८६।३९ ‘नर’ इत्यत्र ‘विप्रा’ इति पाठः।