Samveda/1229
शूरो न धत्त आ??यु??धा गभस्त्योः स्वऽðऔः(स्वाः) सिषासन्रथिरो गविष्टिषु। इन्द्र??स्य शुष्ममीर??य??न्नप??स्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः॥१२२९
Veda : Samveda | Mantra No : 1229
In English:
Seer : kavirbhaargavaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH
Subject : English Translation will be uploaded as and when ready.
Verse : shuuro na dhatta aayudhaa gabhastyo sva3HsiShaasanrathiro gaviShTiShu . indrasya shuShmamiirayannapasyubhirindurhinvaano ajyate maniiShibhiH.1229
Component Words : shuuraH .na .dhatte .aayudhaa .gabhastyoH .sva.aritti .siShaasan .rathiraH .gaviShTiShu .go. .iShTiShu .indrasya .shuShmam .iirayan .apasyubhiH .induH. hinvaanaH .ajyate .maniiShibhiH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अगले मन्त्र में परमात्मा के कृत्य वर्णित हैं।
पदपाठ : शूरः ।न ।धत्ते ।आयुधा ।गभस्त्योः ।स्वऽ३रित्ति ।सिषासन् ।रथिरः ।गविष्टिषु ।गो। ।इष्टिषु ।इन्द्रस्य ।शुष्मम् ।ईरयन् ।अपस्युभिः ।इन्दुः। हिन्वानः ।अज्यते ।मनीषिभिः॥
पदार्थ : वह सोम परमेश्वर (गभस्त्योः) आकाश व भूमि रूप हाथों में (आयुधा) जलों को (धत्ते) धारण करता है, (शूरः न) जैसे शूरवीर मनुष्य (गभस्त्योः) हाथों में (आयुधा) शस्त्रास्त्रों को (धत्ते) धारण करता है। (रथिरः) रथारोही सेनापति के समान (गविष्टिषु) देवासुरसङ्ग्रामों में (स्वः) विजय-सुख को (सिषासन्) देना चाहता हुआ, (इन्द्रस्य) जीवात्मा के (शुष्मम्) बल को (ईरयन्) उन्नत करता हुआ, (हिन्वानः) वृद्धि प्रदान करता हुआ (इन्दुः) तेजस्वी परमेश्वर (अपस्युभिः) कर्मप्रिय, (मनीषिभिः) बुद्धिमान् स्तोताओं द्वारा (अज्यते) अन्तरात्मा में प्रकट किया जाता है ॥२॥यहाँ श्लिष्टोपमा अलङ्कार है, ‘रथिरः’ में लुप्तोपमा है ॥२॥
भावार्थ : प्रकाशप्रदाता, वृष्टिप्रदाता, विजयप्रदाता, बलप्रदाता और वृद्धिप्रदाता परमेश्वर भला किसका वन्दनीय नहीं है ॥२॥
In Sanskrit:
ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः
विषय : अथ परमात्मकृत्यानि वर्णयति।
पदपाठ : शूरः ।न ।धत्ते ।आयुधा ।गभस्त्योः ।स्वऽ३रित्ति ।सिषासन् ।रथिरः ।गविष्टिषु ।गो। ।इष्टिषु ।इन्द्रस्य ।शुष्मम् ।ईरयन् ।अपस्युभिः ।इन्दुः। हिन्वानः ।अज्यते ।मनीषिभिः॥
पदार्थ : स सोमः परमेश्वरः (गभस्त्योः) द्यावापृथिवीरूपयोः हस्तयोः (आयुधा२) आयुधानि उदकानि। [आयुधानि इत्युदकनामसु पठितम्। निघं० १।१२] (धत्ते) धारयति। कथमिव ? (शूरः न) वीरो यथा (गभस्त्योः) हस्तयोः (आयुधा) आयुधानि शस्त्रास्त्राणि (धत्ते) धारयति। [गभस्ती इति बाहुनामसु पठितम् निघं० २।४।] (रथिरः) रथारूढः सेनापतिरिव (गविष्टिषु) देवासुरसंग्रामेषु। [शत्रुभिरपहृतानां गवाम् इष्टिः प्राप्तिर्यासु ता गविष्टयः सङ्ग्रामाः।] (स्वः) विजयसुखम् (सिषासन्) दित्सन्, (इन्द्रस्य) जीवात्मनः (शुष्मम्) बलम् (ईरयन्) उन्नयन्, (हिन्वानः) वृद्धिं प्रयच्छन्। [हि गतौ वृद्धौ च, आत्मनेपदं छान्दसम्।] (इन्दुः) तेजस्वी परमेश्वरः (अपस्युभिः) कर्मप्रियैः। [अपांसि कर्माणि आत्मनः कामयन्ते इति अपस्युवः तैः। अपः इति कर्मनाम। निघं० २।१।] (मनीषिभिः) मेधाविभिः स्तोतृजनैः (अज्यते) अन्तरात्मनि प्रकटीक्रियते। [अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, कर्मणि रूपम्] ॥२॥अत्र श्लिष्टोपमालङ्कारः, ‘रथिरः’ इत्यत्र च लुप्तोपमा ॥२॥
भावार्थ : प्रकाशप्रदाता वृष्टिप्रदाता विजयप्रदाता बलप्रदाता वृद्धिप्रदाता च परमेश्वरः कस्य न वन्दनीयः ? ॥२॥
टिप्पणी:१. ऋ० ९।७६।२। २. असि-परशु-पाशप्रभृतीनि यथा शूरः धारयति तद्वत् सोमः धारयति स्रुक्-स्रुव-ग्रह-चमसान्यायुधानि गभस्त्योः—इति वि०।