Samveda/1305
स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः। स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः॥१३०५
Veda : Samveda | Mantra No : 1305
In English:
Seer : vasiShTho maitraavaruNiH | Devta : agniH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : sa mahnaa vishvaa duritaani saahvaanagni ShTave dama aa jaatavedaaH . sa no rakShiShadduritaadavadyaadasmaangRRiNata uta no maghonaH.1305
Component Words : saH . mahnaa . vishvaa . duritaani . duH . itaani . saahvaan . agniH . stave . dame . aa . jaatavedaaH . jaata . vedaaH . saH . naH . rakShiShat . duritaat . duH . itaat . avadyaat . asmaan . gRRiNataH . uta . naH . maghonaH. .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में यह कहा गया है कि परमेश्वर हमें किस तरह उपकृत करे।
पदपाठ : सः । मह्ना । विश्वा । दुरितानि । दुः । इतानि । साह्वान् । अग्निः । स्तवे । दमे । आ । जातवेदाः । जात । वेदाः । सः । नः । रक्षिषत् । दुरितात् । दुः । इतात् । अवद्यात् । अस्मान् । गृणतः । उत । नः । मघोनः॥ ।
पदार्थ : (मह्ना) महिमा से (विश्वा) सब (दुरितानि) पाप, दुःख, दुर्गुण, दुर्व्यसन आदियों को (साह्वान्) नष्ट कर देनेवाला, (जातवेदाः) सर्वज्ञ और सर्वान्तर्यामी (अग्निः) अग्रणायक परमेश्वर (दमे) अन्तरात्मा-रूप घर में (आ स्तवे) प्रतिष्ठा पाता है। (सः) वह परमेश्वर (नः) हमें (अवद्यात्) निन्दनीय (दुरितात्) पाप से (रक्षिषत्) बचाये। (गृणतः) अर्चना करनेवाले (अस्मान्) हम स्तोताओं को (उत्) और (नः) हमारे (मघोनः) धनिक पुत्र, पौत्र, पत्नी आदि की (रक्षिषत्) रक्षा करे ॥२॥
भावार्थ : परमात्मा को ध्याकर, उससे शुभ प्रेरणा पाकर हम और हमारे सम्बन्धी जन सब दुर्गुण, दुर्व्यसन, दुःख आदि को दूर कर देवें ॥२॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ परमेश्वरोऽस्मान् कथमुपकुर्यादित्याह।
पदपाठ : सः । मह्ना । विश्वा । दुरितानि । दुः । इतानि । साह्वान् । अग्निः । स्तवे । दमे । आ । जातवेदाः । जात । वेदाः । सः । नः । रक्षिषत् । दुरितात् । दुः । इतात् । अवद्यात् । अस्मान् । गृणतः । उत । नः । मघोनः॥ ।
पदार्थ : (मह्ना) महिम्ना (विश्वा) विश्वानि (दुरितानि) पापदुःखदुर्गुणदुर्व्यसनादीनि (साह्वान्) अभिभूतवान्। [सहतेः लिटः क्वसौ ‘दाश्वान्साह्वान्मीढ्वांश्च। अ० ६।१।१२’ इत्यनेन परस्मैपदमुपधादीर्घत्वमद्विर्वचनमनिट्त्वं च निपात्यते।] (जातवेदाः) सर्वज्ञः सर्वान्तर्यामी च (अग्निः) अग्रनायकः परमेश्वरः (दमे) अन्तरात्मरूपे गृहे। [दम इति गृहनाम। निघं० ३।४।] (आ स्तवे) आ स्तूयते। (सः) परमेश्वरः (नः) अस्मान् (अवद्यात्) गर्ह्यात्। [अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु। अ० ३।१।१०१ इति गर्ह्यार्थे निपातनम्।] (दुरितात्) पापात् (रक्षिषत्) रक्षतु। [रक्षतेर्लेटि रूपम्।] (गृणतः) अर्चतः। [गृणातिः अर्चतिकर्मा। निघं० ३।१४।] (अस्मान्) स्तोतॄन् (उत) अपि च (नः) अस्माकम् (मघोनः) धनिकान् पुत्रपौत्रकलत्रादीन् (रक्षिषत्) रक्षतु ॥२॥२
भावार्थ : परमात्मानं ध्यात्वा ततः सत्प्रेरणां प्राप्य वयमस्माकं सम्बन्धिनश्च सर्वाणि दुर्गुणदुर्व्यसनदुःखादीनि दूरीकुर्याम ॥२॥
टिप्पणी:१. ऋ० ७।१२।२, ‘न॒ग्निः ष्ट॑वे॒’ इति सविसर्गः पाठः।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं राजविषये व्याख्यातः।