Samveda/1308
कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम्। जामि ब्रुवत आयुधा॥१३०८
Veda : Samveda | Mantra No : 1308
In English:
Seer : vatsaH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : kaNvaa indra.m yadakrata stomairyaj~nasya saadhanam . jaami bruvata aayudhaa.1308
Component Words : kaNvaaH . indram . yat . akrata . stomaiH . yaj~nasya . saadhanam . jaami . bruvate . aayudhaa.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : वत्सः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : आगे पुनः उसी विषय को कहते हैं।
पदपाठ : कण्वाः । इन्द्रम् । यत् । अक्रत । स्तोमैः । यज्ञस्य । साधनम् । जामि । ब्रुवते । आयुधा॥
पदार्थ : (यत्) जब (कण्वाः) मेधावी स्तोता लोग (इन्द्रम्) विघ्ननाशक, परमैश्वर्यवान् परमात्मा को (स्तोमैः) स्तोत्रों से (यज्ञस्य) अपने १०० वर्ष चलनेवाले जीवन-यज्ञ का (साधनम्) साधक (अक्रत) बना लेते हैं, तब वे (आयुधा) रक्षा के साधनभूत शस्त्रास्त्रों को (जामि) अनावश्यक (ब्रुवते) कहने लगते हैं अर्थात् जीवन-यज्ञ को तो परमात्मा ने ही सिद्ध कर दिया, इन संगृहीत किये हुए शस्त्रास्त्रों से क्या लाभ? इस प्रकार हथियारों को व्यर्थ बताने लगते हैं ॥२॥
भावार्थ : परमात्मा के प्रति आत्म-समर्पण करके उसका रक्षण सबको प्राप्त करना चाहिए ॥२॥
In Sanskrit:
ऋषि : वत्सः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथ पुनस्तमेव विषयं प्राह।
पदपाठ : कण्वाः । इन्द्रम् । यत् । अक्रत । स्तोमैः । यज्ञस्य । साधनम् । जामि । ब्रुवते । आयुधा॥
पदार्थ : (यत्) यदा (कण्वाः२) मेधाविनः स्तोतारः। [कण्व इति मेधाविनाम। निघं० ३।१५।] (इन्द्रम्) विघ्नविदारकं परमैश्वर्यवन्तं परमात्मानम् (स्तोमैः) स्तोत्रैः (यज्ञस्य) स्वकीयस्य शतसंवत्सरात्मकस्य जीवनयज्ञस्य (साधनम्) साधकम् (अक्रत) अकृषत, कुर्वन्ति। [अत्र करोतेर्लडर्थे लुङि ‘मन्त्रे घसह्वर०’। अ० २।४।८० इत्यनेन च्लेर्लुक्।] तदा ते (आयुधा) रक्षासाधनानि आयुधानि (जामि) अतिरिक्तम्। [जामि—अतिरेकनाम इति निरुक्तम्। ४।२०।] (ब्रुवते) कथयन्ति। यज्ञ इन्द्रेणैव साधितः, किमेभिः संगृहीतैरायुधैरित्यायुधानां व्यर्थत्वं ब्रुवन्तीत्यर्थः३ ॥२॥
भावार्थ : आत्मानं परमात्मने समर्प्य तद्रक्षणं सर्वैः प्राप्तव्यम् ॥२॥
टिप्पणी:१. ऋ० ८।६।३, अथ० २०।१३८।३, उभयत्र ‘आयु॑धम्’ इति पाठः।२. सायणाचार्योऽत्रापि पूर्वं ‘कण्वाः स्तोतृनामैतत्, स्तोतारः’ इत्यर्थं कृत्वापि पश्चात् ‘कण्वगोत्रा वा’ इत्यैतिहासिकं व्याचष्टे।३. आयुधा शत्रूणां हिंसकानि बाणादीनि जामि, अतिरेकनामैतत्, अतिरिक्तम् अधिकं प्रयोजनरहितं ब्रुवते कथयन्ति। आयुधस्य सर्वस्य कार्यस्येन्द्रेणैव कृतत्वाद् आयुधानि निःप्रयोजनानीत्यर्थः। यद्वा, आयुधा आयुधम् आयोधनशीलम् इन्द्रम् जामि जामिं भ्रातरं ब्रुवते वदन्ति—इति सा०।