Samveda/1381
स नो वेदो अमात्यमग्नी रक्षतु शन्तमः। उतास्मान्पात्वहसः॥१३८१
Veda : Samveda | Mantra No : 1381
In English:
Seer : vasiShTho maitraavaruNiH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : sa no vedo amaatyamagnii rakShatu shantamaH . utaasmaanpaatva.m hasaH.1381
Component Words : saH . naH . vedaH . amaatyam . agniH . rakShatu . shantam . uta . asmaan . paatu . ahasaH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः
विषय : अगले मन्त्र में उपासक अपनी आकाङ्क्षा प्रकट कर रहा है।
पदपाठ : सः । नः । वेदः । अमात्यम् । अग्निः । रक्षतु । शन्तम् । उत । अस्मान् । पातु । अहसः॥
पदार्थ : (सः) वह (शन्तमः) अतिशय शान्तिदायक (अग्निः) अग्रनायक परमेश्वर (नः) हमारे (अमात्यम्) साथ रहनेवाले (वेदः) ज्ञान की वा दिव्य धन की (रक्षतु) रक्षा करे (उत) और (अहंसः) पाप से (नः) हमें (पातु) बचाये ॥३॥
भावार्थ : परमात्मा में विश्वास से दिव्य गुण रक्षित होते हैं और पाप नष्ट हो जाते हैं ॥३॥
In Sanskrit:
ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथोपासकः स्वाकाङ्क्षां प्रकटयति।
पदपाठ : सः । नः । वेदः । अमात्यम् । अग्निः । रक्षतु । शन्तम् । उत । अस्मान् । पातु । अहसः॥
पदार्थ : (सः) असौ (शन्तमः) शंकरतमः (अग्निः) अग्रनायकः परमेश्वरः (नः) अस्माकम् (अमात्यम्२) सहभूतम्। [अमा इत्यव्ययं सहार्थवाचकम्, ततः ‘अव्ययात् त्यप्।’ अ० ४।२।१०४ इति त्यप् प्रत्ययः।] (वेदः) ज्ञानं दिव्यं धनं वा (रक्षतु) पालयतु। (उत) अपि च (अंहसः) पापात् (नः) अस्मान् (पातु) त्रायताम् ॥३॥३
भावार्थ : परमात्मनि विश्वासाद् दिव्यगुणा रक्ष्यन्ते पापानि च विद्राव्यन्ते ॥३॥
टिप्पणी:१. ऋ० ७।१५।३, ‘शन्तमः’ इत्यत्र ‘वि॒श्वतः॑’।२. अमत् प्राणः, प्राणत्वं, हृदयावस्थितं ज्योतिः—इति वि०।३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमेतं यतिगृहस्थयोर्विषये व्याख्याति।