Samveda/1609
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः। तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः॥१६०९
Veda : Samveda | Mantra No : 1609
In English:
Seer : vaalakhilyaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH
Subject : English Translation will be uploaded as and when ready.
Verse : yasyaaya.m vishva aaryaa daasaH shevadhipaa ariH . tirashchidarye rushame paviiravi tubhyetso ajyate rayiH.1609
Component Words : yasya . ayam . vishvaH . aaryaH . daasaH . shevadhipaaH . shevadhi . paaH . ariH . tiraH . chit . arye . rushame . paviiravi . tubhya . it . saH . ajyate . rayiH. .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : वालखिल्यः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः
विषय : प्रथम मन्त्र में इन्द्र परमेश्वर का वर्णन है।
पदपाठ : यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिपाः । शेवधि । पाः । अरिः । तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः॥ ।
पदार्थ : (यस्य) जिस तुझ इन्द्र परमात्मा का (अयम्) यह प्रत्यक्ष दिखाई देता हुआ (विश्वः) सम्पूर्ण संसार है, जो तू (आर्यः)श्रेष्ठ, (दासः) दुष्टों का क्षय करनेवाला, (शेवधिपाः) निधियों का रक्षक और (अरिः) समर्थ है और जो तू (अर्ये) जीवनाधार पवन में, (रुशमे) चमकीले सूर्य में तथा(पवीरवि) बिजली-युक्त बादल में (तिरः चित्) विद्यमान है, ऐसे (तुभ्य इत्) तेरे लिए ही (सः) वह जगत् में सर्वत्र बिखरा हुआ (रयिः) धन (अज्यते) समर्पित है ॥१॥
भावार्थ : विश्व का सम्राट्, श्रेष्ठ, सज्जनों का रक्षक, दुष्टों का दलन करनेवाला, भूगर्भ में निहित निधियों का रक्षक, सब कुछ करने में समर्थ, सर्वान्तर्यामी जो परमेश्वर है, उसी का सब धन है, इस हेतु से ईश्वरापर्ण-बुद्धि से उसका सेवन करना चाहिए ॥१॥
In Sanskrit:
ऋषि : वालखिल्यः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः
विषय : तत्रादाविन्द्रं परमेश्वरं वर्णयति।
पदपाठ : यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिपाः । शेवधि । पाः । अरिः । तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः॥ ।
पदार्थ : (यस्य) यस्य तव इन्द्रस्य परमात्मनः (अयम्) एष प्रत्यक्षं दृश्यमानः (विश्वः) सम्पूर्णः संसारो विद्यते, यः त्वम् (आर्यः) श्रेष्ठः, (दासः) दुष्टानामुपक्षयिता, (शेवधिपाः) निधिपाः। [निधिः शेवधिरिति यास्कः। निरु० २।४।] (अरिः) ईश्वरश्च वर्तसे। [अरिः ईश्वरः। निरु० ५।२।] (यश्च त्वम्) (अर्ये) स्वामिनि, जीवनाधारे पवने इत्यर्थः, (रुशमे) रुचमे, रोचिष्मति आदित्ये। [रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः। निरु० ६।१३।] (पवीरवि) विद्युन्मति पर्जन्ये च। [पवीरं विद्युद्वज्रं वाति प्राप्नोति तस्मिन्।] (तिरः चित्) प्राप्तः एव तिष्ठसि। [तिरः सतः इति प्राप्तस्य। निरु० ३।२०।] एतादृशाय (तुभ्य इत्) तुभ्यमेव (सः) जगति सर्वत्र विकीर्णः (रयिः) धनम् (अज्यते) समर्प्यते [तुभ्यम् इत्यस्य मकारलोपश्छान्दसः।] ॥१॥२
भावार्थ : विश्वसम्राट् श्रेष्ठः सज्जनरक्षको दुष्टानां दलयिता भूगर्भे निहितानां निधीनां रक्षकः सर्वकर्मक्षमः सर्वान्तर्यामी यः परमेश्वरोऽस्ति तस्यैव सर्वं धनमिति हेतोः तदर्पणबुद्ध्या तत् सेवनीयम् ॥१॥
टिप्पणी:१. ऋ० ८।५१।९, य० ३३।८२।२. यजुर्भाष्ये दयानन्दर्षिरिममपि मन्त्रं राजधर्मविषये व्याचष्टे।