Samveda/1813
अग्नि होतारं मन्ये दास्वन्तं वसोः सूनु सहसो जातवेदसं विप्रं न जातवेदसम्। य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा। घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः॥१८१३
Veda : Samveda | Mantra No : 1813
In English:
Seer : paruchChepo daivodaasiH | Devta : agniH | Metre : atyaShTiH | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : agni.m hotaara.m manye daasvanta.m vasoH suunu.m sahaso jaatavedasa.m vipra.m na jaatavedasam . ya uurdhvaro svadhvaro devo devaachyaa kRRipaa . ghRRitasya vibhraaShTimanu shukrashochiSha aajuhvaanasya sarpiShaH.1813
Component Words : agnim . hotaaram . manye . daasvantam . vasoH . muunum . sahasaH . jaatavedasam . jaata . vedasam . vipram . vi . prama . na . jaatavedasam . jaata . vedasam . yaH . uurdhvayaa . svadhvaraH . su . adhvaraH . devaH . devaachyaa . kRRipaa . ghRRitasya . vibhraaShTim . vi . bhraaShTim . anu . shukrashochiSha . shukra . shochiShaH . aajuhvaanasya . aa . juhvaanasya . sarpiShaH. .
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : परुच्छेपो दैवोदासिः | देवता : अग्निः | छन्द : अत्यष्टिः | स्वर : गान्धारः
विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ४६५ क्रमाङ्क पर हो चुकी है। परमेश्वर के गुण-कर्म-स्वभावों का वर्णन करते हैं।
पदपाठ : अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसोः । मूनुम् । सहसः । जातवेदसम् । जात । वेदसम् । विप्रम् । वि । प्रम । न । जातवेदसम् । जात । वेदसम् । यः । ऊर्ध्वया । स्वध्वरः । सु । अध्वरः । देवः । देवाच्या । कृपा । घृतस्य । विभ्राष्टिम् । वि । भ्राष्टिम् । अनु । शुक्रशोचिष । शुक्र । शोचिषः । आजुह्वानस्य । आ । जुह्वानस्य । सर्पिषः॥ ।
पदार्थ : मैं (अग्निम्) जगन्नायक परमेश्वर को (होतारम्) श्रद्धा का उपहार ग्रहण करनेवाला (वसोः) दिव्य तथा भौतिक धन का (दास्वन्तम्) दाता, (सहसः) बल, उत्साह और उद्बोधन का (सूनुम्) प्रेरक, (जातवेदसम्) प्रत्येक उत्पन्न पदार्थ में विद्यमान, सर्वान्तर्यामी, (विप्रं न) और विद्वान् मनुष्य के समान (जातवेदसम्) उत्पन्न पदार्थों का ज्ञाता (मन्ये) मानता हूँ, (यः देवः) जो प्रकाशक परमेश्वर (ऊर्ध्वया) उन्नत, (देवाच्या) प्रकाशक अग्नि, बिजली, सूर्य आदियों में व्यक्त हुई (कृपा) शक्ति से (स्वध्वरः) उत्कृष्ट जगत्प्रपञ्च-रूप यज्ञ का सञ्चालक है, साथ ही जो (आजुह्वानस्य) यज्ञाग्नि में होमे जानेवाले, (शुक्रशोचिषः) चमकीली चमकवाले, (सर्पिषः) पिघले हुए (घृतस्य) घृत की (विभ्राष्टिम्) विशिष्ट दीप्ति में भी (अनु) अनुप्रविष्ट है ॥१॥यहाँ उपमालङ्कार है। ‘जातवेदसं’ की आवृत्ति में यमक और ‘देवो, देवा’ में छेकानुप्रास है, सकार आदि की अनेक बार आवृत्ति में वृत्त्यनुप्रास है ॥१॥
भावार्थ : सूर्य, चन्द्र, बिजली, तारे आदियों में और घृत की आहुति से प्रदीप्त अग्नि-ज्वालाओं में जो प्रभा दृष्टिगोचर होती है, वह जगदीश्वर की ही दी हुई है ॥१॥
In Sanskrit:
ऋषि : परुच्छेपो दैवोदासिः | देवता : अग्निः | छन्द : अत्यष्टिः | स्वर : गान्धारः
विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ४६५ क्रमाङ्के व्याख्यातपूर्वा। परमेश्वरस्य गुणकर्मस्वभावा वर्ण्यन्ते।
पदपाठ : अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसोः । मूनुम् । सहसः । जातवेदसम् । जात । वेदसम् । विप्रम् । वि । प्रम । न । जातवेदसम् । जात । वेदसम् । यः । ऊर्ध्वया । स्वध्वरः । सु । अध्वरः । देवः । देवाच्या । कृपा । घृतस्य । विभ्राष्टिम् । वि । भ्राष्टिम् । अनु । शुक्रशोचिष । शुक्र । शोचिषः । आजुह्वानस्य । आ । जुह्वानस्य । सर्पिषः॥ ।
पदार्थ : अहम् (अग्निम्) जगन्नेतारं परमेश्वरम् (होतारम्) श्रद्धोपहाराणां ग्रहीतारम्। [हु दानादनयोः आदाने चेत्येके।], (वसोः) वसुनः दिव्यस्य भौतिकस्य च धनस्य (दास्वन्तम्) दातारम्, (सहसः) बलस्य उत्साहस्य प्रोद्बोधनस्य च (सूनुम्) प्रेरकम्, (जातवेदसम्) जाते जाते विद्यमानम्, सर्वान्तर्यामिनम्, (विप्रं न) विद्वांसं जनमिव (जातवेदसम्) जातानां पदार्थानां वेत्तारम् च (मन्ये) जानामि, (यः देवः) यः प्रकाशकः परमेश्वरः (ऊर्ध्वया) उन्नतया (कृपा) शक्त्या। [कृपू सामर्थ्ये, भ्वादिः।] (स्वध्वरः) शोभनस्य जगत्प्रपञ्चरूपस्य यज्ञस्य सञ्चालको विद्यते, अपि च यः (आजुह्वानस्य) यज्ञाग्नौ हूयमानस्य (शुक्रशोचिषः) शुक्रदीप्तेः (सर्पिषः) सर्पणस्वभावस्य द्रवीभूतस्य (घृतस्य) आज्यस्य (विभ्राष्टिम्) विशिष्टां दीप्तिम् अपि (अनु) अनुप्रविष्टोऽस्ति ॥१॥२अत्रोपमालङ्कारः। ‘जातवेदसम्’ इत्यस्यावृत्तौ यमकम् ‘देवो, देवा’ इति च छेकानुप्रासः, सकारादीनामसकृदावृत्तौ च वृत्त्यनुप्रासः ॥१॥
भावार्थ : सूर्यचन्द्रविद्युन्नक्षत्रादिषु घृताहुत्या प्रदीप्तासु वह्निज्वालासु च या प्रभा दृग्गोचरतां याति सा जगदीश्वरप्रदत्तैव ॥१॥
टिप्पणी:१. ऋ० १।१२७।१, य० १५।४७, अथ० २०।६७।३, सर्वत्र ‘वसोः’ इत्यत्र ‘वसुं’ ‘शुक्रशोचिष’ इत्यत्र च ‘वृष्टि शो॒चिषा॒’ इति भेदः। साम० ४६५।२. दयानन्दस्वामी मन्त्रमिममृग्भाष्ये विवाहविषये यजुर्भाष्ये च विद्वद्विषये व्याचष्टे।