Donation Appeal
Choose Mantra
Samveda/1828

नमः सखिभ्यः पूर्वसद्भ्यो नमः साकंनिषेभ्यः। युञ्जे वाच शतपदीम्॥१८२८

Veda : Samveda | Mantra No : 1828

In English:

Seer : mRRigaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : namaH sakhibhyaH puurvasadbhyo namaH saakanniShebhyaH . yu~nje vaacha.m shatapadiim.1828

Component Words :
namaH . sakhibhyaH . sa . khibhyaH . puurvasadbhayaH . puurva . sadbhyaH . namaH . saakakanniShebhyaH . saakam . niShebhyaH . yu~nje . vaacham . shatapadiim . shata . padiim.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मृगः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में नमस्कार किया गया है।

पदपाठ : नमः । सखिभ्यः । स । खिभ्यः । पूर्वसद्भयः । पूर्व । सद्भ्यः । नमः । साककन्निषेभ्यः । साकम् । निषेभ्यः । युञ्जे । वाचम् । शतपदीम् । शत । पदीम्॥

पदार्थ : (पूर्वसद्भ्यः) जो पहले हो चुके हैं, उन (सखिभ्यः) सखाओं को (नमः) नमस्कार हो, (साकंनिषेभ्यः) साथ रहनेवाले सखाओं को (नमः) नमस्कार हो। अग्नि के समान तेजस्वी मैं (शतपदीम्) अनेक पादोंवाली (वाचम्) वेदवाणी को (युञ्जे) प्रयोग में लाता हूँ ॥१॥

भावार्थ : जो हमसे पहले उत्पन्न हुए वृद्धजन हैं और जो सहयोगी मित्र हैं, उन सबको यथायोग्य सत्कार देना चाहिए। धार्मिक कार्यों में तथा परमात्मा की स्तुति में सदा वेदमन्त्रों का प्रयोग करना उचित है ॥१॥


In Sanskrit:

ऋषि : मृगः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ नमस्कारमाह।

पदपाठ : नमः । सखिभ्यः । स । खिभ्यः । पूर्वसद्भयः । पूर्व । सद्भ्यः । नमः । साककन्निषेभ्यः । साकम् । निषेभ्यः । युञ्जे । वाचम् । शतपदीम् । शत । पदीम्॥

पदार्थ : (पूर्वसद्भ्यः) पूर्वं सीदन्ति स्म ये ते पूर्वसदः तेभ्यः (सखिभ्यः) समानख्यानेभ्यः सुहृद्भ्यः (नमः) नमस्कारोऽस्तु, (साकंनिषेभ्यः) साकं सह निषः स्थितिः येषां तेभ्यः सहवर्तिभ्यः सखिभ्यः सुहृद्भ्यः (नमः) नमोऽस्तु। अग्निः अग्निवत् तेजस्वी अहम् (शतपदीम्)१ अनेकपादयुक्तां (वाचम्) वेदवाचम्। [ऋक् शतपदी ष० ब्रा० १।४।] (युञ्जे) प्रयुञ्जे ॥१॥

भावार्थ : येऽस्मत्पूर्वजा वृद्धाः सन्ति ये च सहयोगिनः सखायः सन्ति तेभ्यः सर्वेभ्योऽपि यथायोग्यं सत्कारः प्रदेयः। धार्मिकेषु कृत्येषु परमात्मस्तुतौ च सदा वेदमन्त्राः प्रयोक्तव्याः ॥१॥

टिप्पणी:१. शतपदीम् अस्मभ्यं फलप्रदानाय अपरिमितमार्गाम्—इति सा०। वेदेषु यानि प्रधानानि छन्दांसि प्रयुक्तानि तेषु साकल्येन पादसंख्या शतप्राया भवतीति वेदवाक् शतपदीत्युच्यते।