Samveda/1856
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः। देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम्॥१८५६
Veda : Samveda | Mantra No : 1856
In English:
Seer : apratiratha aindraH | Devta : indraH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : indra aasaa.m netaa bRRihaspatirdakShiNaa yaj~naH pura etu somaH . devasenaanaamabhibha~njatiinaa.m jayantiinaa.m maruto yantvagram.1856
Component Words : indraH . aasaam . netaa . bRRihaH . patiH . dakShiNaa . yaj~naH . puraH . etu . somaH . devasenaanaam . deva . senaanaam . abhibha~njatiinaam . abhi . bha~njatiinaam . jayantiinaam . marutaH . yantu . agram.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में जीवात्मा की सेनाध्यक्षता में विजयार्थ युद्ध प्रयाण का वर्णन है।
पदपाठ : इन्द्रः । आसाम् । नेता । बृहः । पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः । देवसेनानाम् । देव । सेनानाम् । अभिभञ्जतीनाम् । अभि । भञ्जतीनाम् । जयन्तीनाम् । मरुतः । यन्तु । अग्रम्॥
पदार्थ : (बृहः पतिः) महान् शरीर-रूप राष्ट्र का रक्षक (इन्द्रः) वीर जीवात्मा-रूप सेनापति (आसाम्) इन देव-सेनाओं का (नेता) नेता हो। (दक्षिणा) त्याग की भावना, (यज्ञः) परमेश्वरपूजारूप यज्ञ (सोमः) और शान्ति का व्रत (पुरः एतु) आगे-आगे चले। (अभिभञ्जतीनाम्) अदिव्य भावों तथा अधार्मिक दुष्ट-जनों को तोड़ती-फोड़ती-कुचलती हुई, (जयन्तीनाम्), विजय का उत्कर्ष प्राप्त करती हुई (देवसेनानाम्) दिव्यभावों तथा सदाचारी विद्वान् जनों की सेनाओं के (अग्रम्) आगे-आगे (मरुतः) प्राण तथा वायुवत् बलिष्ठ शूरवीर लोग (यन्तु) चलें ॥२॥
भावार्थ : सबको चाहिए कि अपने जीवात्मा को सेनापति बनाकर त्याग, परमात्मा की उपासना और विश्वशान्ति का आदर्श सामने रख कर, सत्य-अहिंसा आदि दिव्य गुणों की तथा बलिष्ठ योद्धाओं की सेना लेकर, प्राणपण से युद्ध करके देवासुरसङ्ग्राम में विजय प्राप्त करें ॥२॥
In Sanskrit:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ जीवात्मनः सेनाध्यक्षत्वे विजयार्थं युद्धप्रयाणं वर्ण्यते।
पदपाठ : इन्द्रः । आसाम् । नेता । बृहः । पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः । देवसेनानाम् । देव । सेनानाम् । अभिभञ्जतीनाम् । अभि । भञ्जतीनाम् । जयन्तीनाम् । मरुतः । यन्तु । अग्रम्॥
पदार्थ : (बृहः पतिः) बृहतः शरीरराष्ट्रस्य पाता, (इन्द्रः) वीरः जीवात्मरूपः सेनापतिः (आसाम्) देवसेनानाम् (नेता) नायको भवतु। (दक्षिणा) त्यागभावना, (यज्ञः) परमात्मपूजनरूपो यज्ञः (सोमः) शान्तिव्रतं च (पुरः एतु) अग्रे गच्छतु। (अभिभञ्जतीनाम्) अदिव्यान् भावान् अधार्मिकान् दुष्टजनांश्च आमृद्नन्तीनाम्, (जयन्तीनाम्) विजयोत्कर्षं प्राप्नुवतीनाम् (देवसेनानाम्) दिव्यभावचमूनां सदाचारिविद्वच्चमूनां च (अग्रम्) अग्रगामित्वेन (मरुतः) प्राणाः वायुवद् बलिष्ठाः शूरवीराश्च (यन्तु) गच्छन्तु ॥२॥
भावार्थ : स्वजीवात्मानं सेनापतिं विधाय, त्यागं परमात्मोपासनं विश्वशान्तिं चादर्शं सम्मुखं कृत्वा, सत्याहिंसादीनां बलिष्ठानां योद्धॄणां च सेनां गृहीत्वा प्राणपणेन युद्ध्वा सर्वैर्देवासुरसंग्रामे विजयः प्राप्तव्यः ॥२॥
टिप्पणी:१. ऋ० १०।१०३।८; य० १७।४०; अथ० १९।१३।९।