Samveda/1857
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुता शर्ध उग्रम्। महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् (च)।। [धा. । उ । स्व. ।]॥१८५७
Veda : Samveda | Mantra No : 1857
In English:
Seer : apratiratha aindraH | Devta : indraH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : indrasya vRRiShNo varuNasya raaj~na aadityaanaa.m marutaa.m shardha ugram . mahaamanasaa.m bhuvanachyavaanaa.m ghoSho devaanaa.m jayataamudasthaat.1857
Component Words : indrasya . vRRiShNaH . varuNasya . raaj~na . aadityaanaam . aa . dityaanaam . marutaam . sharddhaH . ugram . mahaamanasaam . mahaa . manasaam . bhuvanachyavaanaam . bhuvan . chyavaanaam . ghoShaH . devaanaam . jayataam . vat . asthaat.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अब वीरों के विजय-घोष का वर्णन करते हैं।
पदपाठ : इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञ । आदित्यानाम् । आ । दित्यानाम् । मरुताम् । शर्द्धः । उग्रम् । महामनसाम् । महा । मनसाम् । भुवनच्यवानाम् । भुवन् । च्यवानाम् । घोषः । देवानाम् । जयताम् । वत् । अस्थात्॥
पदार्थ : (वृष्णः) महाबली (इन्द्रस्य) विघ्नविदारक जीवात्मा का, (राज्ञः) सङ्कल्प बल से राजित (वरुणस्य) श्रेष्ठ मन का और (आदित्यानाम्) दोषापहारी (मरुताम्) प्राणों का (उग्रम्) उग्र (शर्धः) बल (उदस्थात्) ऊपर उठे। (महामनसाम्) बड़े हौसलेवाले, (भुवनच्यवानाम्) ब्रह्माण्ड को डिगा देनेवाले, (जयताम्) विजय-लाभ करनेवाले (देवानाम्) दिव्य भावों का और धर्मात्मा रण-बाँके वीरों का (घोषः) विजय-घोष (उदस्थात्) ऊपर उठे ॥३॥यहाँ ‘भुवनच्यवानाम्’ में असम्बन्ध में सम्बन्धरूप अतिशयोक्ति अलङ्कार है। वीर रस है ॥३॥
भावार्थ : उत्साही आत्मा, मन, प्राण आदि शरीरस्थ रण-बाँके वीरों की और राष्ट्र के सेनापति आदि वीरोद्भटों की देवासुरसङ्ग्राम में विजय निश्चित होती है ॥३॥
In Sanskrit:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : इन्द्रः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ वीराणां विजयघोषो वर्ण्यते।
पदपाठ : इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञ । आदित्यानाम् । आ । दित्यानाम् । मरुताम् । शर्द्धः । उग्रम् । महामनसाम् । महा । मनसाम् । भुवनच्यवानाम् । भुवन् । च्यवानाम् । घोषः । देवानाम् । जयताम् । वत् । अस्थात्॥
पदार्थ : (वृष्णः) महाबलस्य (इन्द्रस्य) विघ्नविदारस्य जीवात्मनः, (राज्ञः) संकल्पबलेन राजितस्य (वरुणस्य) श्रेष्ठस्य मनसः, (आदित्यानाम्) दोषापहारकाणाम् (मरुताम्) प्राणानां च [आददते शरीरस्थान् दोषान् ये ते आदित्याः।] (उग्रम्) तीक्ष्णम् (शर्धः) बलम् (उदस्थात्) उत्तिष्ठतु। (महामनसाम्) महोत्साहानाम्, (भुवनच्यवानाम्) ब्रह्माण्डच्यावयितॄणाम्, (जयतां) विजयं लभमानानाम् (देवानाम्) दिव्यभावानां धार्मिकाणां रणोद्भटानां वा (घोषः) विजयघोषः (उदस्थात्) उत्तिष्ठतु। [अत्र लोडर्थे लुङ्] ॥३॥२अत्र ‘भुवनच्यवानाम्’ इत्यत्रासम्बन्धे सम्बन्धरूपोऽतिशयोक्ति- रलङ्कारः वीरो रसः ॥३॥
भावार्थ : उत्साहवतामात्ममनःप्राणादीनां शरीरस्थानां वीरप्रकाण्डानां, राष्ट्रस्य सेनापत्यादिवीरोद्भटानां च देवासुरसंग्रामे विजयः सुनिश्चितः खलु ॥३॥
टिप्पणी:१. ऋ० १०।१०३।९२; १७।४१; अथ० १९।१३।१०।२. यजुर्भाष्ये दयानन्दस्वामिना मन्त्रोऽयं युद्धविजयविषये व्याख्यातः।