Samveda/1860
असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना। तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् (चु)।। [धा. । उ । स्व. ।]॥१८६०
Veda : Samveda | Mantra No : 1860
In English:
Seer : apratiratha aindraH | Devta : marutaH | Metre : triShTup | Tone : dhaivataH
Subject : English Translation will be uploaded as and when ready.
Verse : asau yaa senaa marutaH pareShaamabhyeti na ojasaa spardhamaanaa . taa.m guuhata tamasaapavratena yathaiteShaamanyo anya.m na jaanaat.1860
Component Words : haveShu . asau . yaa . senaa . marutaH . pareShaam . abhyeti . abhi . eti . naH . ojasaa . spardhamaanaa . taam . guuhata . tamasaa . apavratena . apa . vratena . yathaa . eteghaam . anyaH . an . yaH . anyam . an . yam . na . jaanaat.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : मरुतः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अगले मन्त्र में शत्रुओं को मोह में डालने की प्रेरणा दी गयी है।
पदपाठ : हवेषु । असौ । या । सेना । मरुतः । परेषाम् । अभ्येति । अभि । एति । नः । ओजसा । स्पर्धमाना । ताम् । गूहत । तमसा । अपव्रतेन । अप । व्रतेन । यथा । एतेघाम् । अन्यः । अन् । यः । अन्यम् । अन् । यम् । न । जानात्॥
पदार्थ : हे (मरुतः) प्राणो वा वीर सैनिको ! (असौ या) यह जो (ओजसा) अपने बल से (स्पर्धमाना) हमसे स्पर्धा करती हुई (परेषाम्) शत्रुओं की (सेना) सेना (नः अभ्येति) हमारी ओर बढ़ी आ रही है, (ताम्) उस सेना को (अपव्रतेन) जिसमें कार्य बन्द हो जाते हैं, ऐसे (तमसा) अन्धकार से (गूहत) आच्छन्न कर दो, (यथा) जिससे (एतेषाम्) इनमें (अन्यः) एक (अन्यम्) दूसरे को (न जानात्) न जान सके ॥३॥
भावार्थ : जैसे युद्ध में सम्मोहनास्त्र के प्रयोग द्वारा घोर अन्धकार के व्याप्त हो जाने पर शत्रु एक-दूसरे को ही नहीं देख पाते, वैसे ही जीवात्मा के प्राणायाम द्वारा प्रयुक्त सम्मोहन से सभी आन्तरिक काम-क्रोध आदि वा अविद्या-अस्मिता आदि शत्रु सर्वथा मोह को प्राप्त हो जाएँ ॥३॥
In Sanskrit:
ऋषि : अप्रतिरथ ऐन्द्रः | देवता : मरुतः | छन्द : त्रिष्टुप् | स्वर : धैवतः
विषय : अथ शत्रुमोहनाय प्रेरयति।
पदपाठ : हवेषु । असौ । या । सेना । मरुतः । परेषाम् । अभ्येति । अभि । एति । नः । ओजसा । स्पर्धमाना । ताम् । गूहत । तमसा । अपव्रतेन । अप । व्रतेन । यथा । एतेघाम् । अन्यः । अन् । यः । अन्यम् । अन् । यम् । न । जानात्॥
पदार्थ : हे (मरुतः) प्राणाः वीराः सैनिका वा ! (असौ या) एषा या (ओजसा) बलेन (स्पर्धमाना) स्पर्धां कुर्वती (परेषाम्) शत्रूणाम् (सेना) पृतना (नः अभ्येति) अस्मान् प्रत्यागच्छति, (ताम्) सेनाम् (अपव्रतेन) अपगतानि व्रतानि कर्माणि यस्मिंस्तेन (तमसा) अन्धकारेण (गूहत) आच्छादयत। [गुहू संवरणे, भ्वादिः, गुणाभावश्छान्दसः।] (यथा) येन प्रकारेण (एतेषाम्) एषां शत्रूणां मध्ये (अन्यः) एकः (अन्यम्) अपरम् (न जानात्) न जानाति। [ज्ञा अवबोधने धातोर्लेटि रूपम्] ॥३॥२
भावार्थ : यथा युद्धे संमोहनास्त्रप्रयोगेण घने तमसि बाह्याः शत्रवोऽन्योन्यमेव न द्रष्टुं प्रभवन्ति तथैव जीवात्मना प्राणायामद्वारा प्रयुक्तेन संमोहनेनाभ्यन्तराः सर्वेऽपि कामक्रोधादयोऽविद्याऽस्मितादयो वा शत्रवः सर्वथा मुह्येरन् ॥३॥
टिप्पणी:१. य० १७।४७, ‘अ॒भ्यैति॑’ इति भेदः। ‘यथा॒मी अ॒न्यो अ॒न्यत्र जा॒नन्’ इति चतुर्थः पादः। अथ० ३।२।६।२. यजुर्भाष्ये दयानन्दस्वामिना मन्त्रोऽयमपि युद्धनीतिविषये व्याख्यातः।