Donation Appeal Download Our App
Choose Sutra

शान्तिकरणम्

In Hindi:

संस्कृत में सूत्र की भूमिका : शान्तिकरणम्

महर्षि दयानन्द व्याख्या :

शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या।



शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पूषणा॒ वाज॑सातौ॥1॥



शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुर॑न्धिः॒ शमु॑ सन्तु॒ रायः॑।



शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु॥2॥



शं नो॑ धा॒ता शमु॑ ध॒र्त्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑।



शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु॥3॥



शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम्।



शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑॥4॥



शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु।



शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः॥5॥



शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑।



शं नो॑ रु॒द्रो रु॒द्रे॒भि॒र्जला॑षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु॥6॥



शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावाणः॒ शमु॑ सन्तु य॒ज्ञाः।



शं नः॒ स्वरू॑णां मि॒तयो॑ भवन्तु॒ शं नः॑ प्र॒स्वःशम्व॑स्तु वेदिः॑॥7॥



शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवन्तु।



शं नः॒ पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ शमु॑ स॒न्त्वापः॑॥8॥



शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवन्तु म॒रुतः॑ स्व॒र्काः।



शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः॥9॥



शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवन्तू॒षसो॑ विभा॒तीः।



शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः॥10॥



शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भि॑रस्तु।



शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः॑॥11॥



शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्तः॒ शमु॑ सन्तु॒ गावः॑।



शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवन्तु पि॒तरो॒ हवे॑षु॥12॥



शं नो॑ अ॒ज एक॑पाद् दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्यःशं स॑मु॒द्रः।



शं नो॑ अ॒पां नपा॑त् पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो॑पा॥13॥



ऋ॰मं॰ 7। सू॰ 35। मं॰ 1-13



इन्द्रो॒ विश्व॑स्य राजति। शन्नो॑ऽअस्तु द्वि॒पदे॒ शं चतु॑ष्पदे॥14॥



शन्नो॒ वातः॑ पवतां॒ शन्न॑स्तपतु॒ सूर्य्यः॑।



शन्नः॒ कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ऽअ॒भि व॑र्षतु॥15॥



अहा॑नि॒ शम्भ॑वन्तु नः॒ शं रात्रीः॒ प्रति॑ धीयताम्।



शन्न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शन्न॒ऽइन्द्रा॒वरु॑णा रा॒तह॑व्या।



शन्न॑ इन्द्रापू॒षणा॒ वाज॑सातौ॒ शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः॥16॥



शन्नो॑ दे॒वीर॒भिष्ट॑य॒ऽआपो॑ भवन्तु पी॒तये॑। शंयोर॒भिस्र॑वन्तु नः॥17॥



द्यौः शान्ति॑र॒न्तरि॑क्षं॒ शान्तिः॑ पृथि॒वी शान्ति॒रापः॒ शान्ति॒रोष॑धयः॒ शान्तिः॑। वन॒स्पत॑यः॒ शान्ति॒र्विश्वे॑ दे॒वाः शान्ति॒र्ब्रह्म॒ शान्तिः॒ सर्वं॑ शान्तिः॒ शान्ति॑रे॒व शान्तिः॒ सा मा॒ शान्ति॑रेधि॥18॥



तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमुच्च॑रत्। पश्ये॑म श॒रदः॑ श॒तं जीवे॑म श॒रदः॑ श॒तं शृणु॑याम श॒रदः॑ श॒तं प्रब्र॑वाम श॒रदः॑ श॒तमदी॑नाः स्याम श॒रदः॑ श॒तं भूय॑श्च श॒रदः॑ श॒तात्॥19॥यजुः॰ अ॰ 36। मं॰ 8, 10-12, 17, 24॥



यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑।



दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥20॥



येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे वृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑।



यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥21॥



यत् प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑।



यस्मा॒न्न ऋ॒ते किञ्च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥22॥



येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व॑म्।



येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥23॥



यस्मि॒न्नृचः॒ साम॒ यजूं॑षि॒ यस्मि॒न्प्रति॑ष्ठिता रथना॒भावि॑वा॒राः।



यस्मिँ॑चि॒त्तं सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥24



सुषा॒र॒थिरश्वा॑निव॒ यन्म॑नुष्यान्नेनी॒यते॒ऽभीशु॑भिर्वा॒जिन॑ इव।



हृ॒त्प्रति॑ष्ठं॒ यद॑जि॒रं जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥25॥यजुः॰ अ॰ 34। मं॰ 1-6॥



स नः पवस्व शं गवे शं जनाय शमर्वते। श राजन्नोषधीभ्यः ॥26 ॥



साम॰ उत्तरा॰ प्रपा॰ 1। मं॰ 3॥



अभ॑यं नः करत्य॒न्तरि॑क्षमभ॑यं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे।



अभ॑यं प॒श्चादभ॑यं पु॒रस्ता॑दुत्तराद॑ध॒रादभ॑यं नो अस्तु॥27॥



अभ॑यं मि॒त्रादभ॑यम॒मित्रा॒दभ॑यं ज्ञा॒तादभ॑यं परोक्षा॑त्।



अभ॑यं॒ नक्त॒मभ॑यं॒ दिवा॑ नः॒ सर्वा॒ आशा॒ मम॑ मि॒त्रं भ॑वन्तु॥28॥अथर्व॰ कां॰ 19।15।5, 6॥



॥ इति शान्तिकरणम्॥[1]








[1]इस स्वस्तिवाचन और शान्तिकरण की सर्वत्र जहाँ-जहाँ प्रतीक धरें, वहाँ-वहाँ करना होगा।