Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 8 / 20

अव॑ पद्यन्तामेषा॒मायु॑धानि॒ मा श॑कन्प्रति॒धामिषु॑म्। अथै॑षां ब॒हु बिभ्य॑ता॒मिष॑वः घ्नन्तु॒ मर्म॑णि ॥ 20॥

Veda : Atharvaveda | Kand : 8 | Sukta : 8 | Paryay : | Mantra No : 20

In Hindi:

ऋषि : भृग्वङ्गिराः | देवता : परसेनाहननम्, इन्द्रः, वनस्पतिः | छन्द : निचृत्पुरस्ताद्बृहती | स्वर :

विषय : शत्रु के नाश का उपदेश।

पदपाठ : अव॑ । प॒द्य॒न्ता॒म् । ए॒षा॒म् । आयु॑धानि । मा । श॒क॒न् । प्र॒ति॒ऽधाम् । इषु॑म् । अथ॑ । ए॒षा॒म् । ब॒हु । बिभ्य॑ताम् । इष॑व: । घ्न॒न्तु॒ । मर्म॑णि ॥८.२०॥

पदार्थ : (एषाम्) इन के (आयुधानि) हथियार (अव पद्यन्ताम्) गिर पड़ें, वे लोग (इषुम्) बाण (प्रतिधाम्) रोपने को (मा शक्रन्) न समर्थ हों। (अथ) और (बहु) बहुत (बिभ्यताम्) डरे हुए (एषाम्) इन लोगों के (इषवः) बाण (मर्मणि) [उनके ही] मर्म स्थान में (घ्नन्तु) घाव करें ॥२०॥"

भावार्थ :

टिप्पणी :२०−(अव पद्यन्ताम्) अधः पतन्तु (एषाम्) शत्रूणाम् (आयुधानि) शस्त्राणि (मा शकन्) समर्था मा भूवन् (प्रतिधाम्) शकि णमुल्कमुलौ। पा० ३।४।१२। प्रतिधा-णमुल्। प्रतिधातुम्। आरोपितुम्। लक्ष्यीकर्त्तुम् (अथ) अपि च (एषाम्) (बहु) अधिकम् (बिभ्यताम्) शतृ प्रत्ययः। त्रसताम् (इषवः) बाणाः (घ्नन्तु) मारयन्तु (मर्मणि) मर्मस्थाने ॥