Donation Appeal Download Our App
Choose Mantra
Atharvaveda / 8 / 8 / 21

सं क्रो॑शतामेना॒न्द्यावा॑पृथि॒वी सम॒न्तरि॑क्षं स॒ह दे॒वता॑भिः। मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥ 21॥

Veda : Atharvaveda | Kand : 8 | Sukta : 8 | Paryay : | Mantra No : 21

In Hindi:

ऋषि : भृग्वङ्गिराः | देवता : परसेनाहननम्, इन्द्रः, वनस्पतिः | छन्द : त्रिष्टुप् | स्वर :

विषय : शत्रु के नाश का उपदेश।

पदपाठ : सम् । क्रो॒श॒ता॒म् । ए॒ना॒न् । द्यावा॑पृथि॒वी इति॑ । सम् । अ॒न्तर‍ि॑क्षम् । स॒ह । दे॒वता॑भि: । मा । ज्ञा॒तार॑म् । मा । प्र॒ति॒ऽस्थाम् । वि॒द॒न्त॒ । मि॒थ: । वि॒ऽघ्ना॒ना: । उप॑ । य॒न्तु॒ । मृ॒त्युम् ॥८.२१॥

पदार्थ : (द्यावापृथिवी) सूर्य और पृथिवी (एनान्) इनको (सम्) बल से (क्रोशताम्) पुकारें, (अन्तरिक्षम्) अन्तरिक्ष लोक (देवताभिः सह)) सब लोकों के साथ (सम्) बल से [पुकारे]। वे लोग (मा) न तो (ज्ञातारम्) जानकर पुरुष को और (मा) न (प्रतिष्ठाम्) प्रतिष्ठा [आश्रय वा आदर] (विदन्त) पावें, और (मिथः) आपस में (विघ्नानाः) मारते हुए (मृत्युम्) मृत्यु (उप यन्तु) पावें ॥२१॥"

भावार्थ :

टिप्पणी :२१−(सम्) सम्यक् बलात् (क्रोशताम्) आह्वयताम् (एनान्) शत्रून् (द्यावापृथिवी) सूर्यभूलोकौ (सम्) (अन्तरिक्षम्) मध्यलोकः (सह) (देवताभिः) गमनशीलैर्लोकैः (मा) निषेधे (ज्ञातारम्) परिचायकम् (प्रतिष्ठाम्) आश्रयम्। गौरवम् (मा विदन्त) मा प्राप्नुवन्तु (मिथः) परस्परम् (विघ्नानाः) ताच्छील्यवयोवचनशक्तिषु चानश्। पा० ३।२।१२९। हन्−चानश्। विनाशयन्तः (उप यन्तु) प्राप्नुवन्तु (मृत्युम्) मरणम् ॥