Samveda/1191
अत्या हियाना न हेतृभिरसृग्रं वाजसातये। वि वारमव्यमाशवः॥११९१
Veda : Samveda | Mantra No : 1191
In English:
Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH
Subject : English Translation will be uploaded as and when ready.
Verse : atyaa hiyaanaa na hetRRibhirasRRigra.m vaajasaataye . vi vaaramavyamaashavaH.1191
Component Words : atyaa .hiyaanaaH. na .hetRRibhiH. asRRipram .vaajasaataye. vaaja .saataye .vi .vaaram .avyam .aashavaH.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अब आनन्द-रसों का वर्णन करते हैं।
पदपाठ : अत्या ।हियानाः। न ।हेतृभिः। असृप्रम् ।वाजसातये। वाज ।सातये ।वि ।वारम् ।अव्यम् ।आशवः॥
पदार्थ : (वाजसातये) संग्राम के लिए (हेतृभिः) प्रेरक योद्धाओं से (हियानाः) प्रेरित किये जाते हुए (अत्याः न) घोड़ों के समान (हेतृभिः) प्रेरक योगाभ्यासों से (हियानाः) प्रेरित किये जाते हुए (आशवः) वेगगामी सोम अर्थात् परमानन्दरस (वाजसातये) बल देने के लिए (वारम्) दोषनिवारक, (अव्यम्) अविनश्वर जीवात्मा के प्रति (वि असृग्रम्) छोड़े जा रहे हैं ॥५॥यहाँ श्लिष्टोपमा अलङ्कार है ॥५॥
भावार्थ : शीघ्रगामी बलवान् घोड़े जैसे युद्ध में विजय के साधन बनते हैं, वैसे ही योगाभ्यास से उत्पन्न किये गए परम आनन्द बल-प्रदान में कारण बनते हैं ॥५॥
In Sanskrit:
ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः
विषय : अथानन्दरसान् वर्णयति।
पदपाठ : अत्या ।हियानाः। न ।हेतृभिः। असृप्रम् ।वाजसातये। वाज ।सातये ।वि ।वारम् ।अव्यम् ।आशवः॥
पदार्थ : (वाजसातये) संग्रामाय। [वाजसातिः इति संग्रामनाम। निघं० २।१७।] (हेतृभिः) प्रेरकैः योद्धृभिः (हियानाः) प्रेर्यमाणाः। [हि गतौ वृद्धौ च, कर्मणि रूपम्।] (अत्याः२ न) अश्वाः इव। [अत्यः इत्यश्वनाम। निघं० १।१४।] (हेतृभिः) प्रेरकैः योगाभ्यासैः (हियानाः) प्रेर्यमाणाः (आशवः) आशुगामिनः सोमाः परमानन्दरसाः (वाजसातये) बलप्रदानाय (वारम्) दोषनिवारकम् (अव्यम्) अव्ययम् अविनश्वरं जीवात्मानं प्रति (वि असृग्रम्) विसृज्यन्ते ॥५॥अत्र श्लिष्टोपमालङ्कारः ॥५॥
भावार्थ : क्षिप्रगामिनो बलवन्तोऽश्वा यथा संग्रामे विजयसाधनतां यान्ति तथा योगाभ्यासजनिताः परमानन्दा आत्मबलप्रदाने कारणतां प्रपद्यन्ते ॥५॥
टिप्पणी:१. ऋ० ९।१३।६।२. सायणस्तु ‘अति आ’ इति विच्छिद्य व्याख्यातवान्, तत्तु पदकारविरुद्धम्। ऋग्वेदभाष्ये तु तेनापि ‘अत्याः न अश्वाः इव’ इत्युचितमेव व्याख्यातम्। अत्राह सामश्रमी—“व्यत्यसृग्रम् इत्यत्र ऋगादिपादाद् ‘अति’ इत्युपसर्गः, ऋक्तृतीयपादाद् ‘वि’ इत्युपसर्गश्च सङ्गृहीतः ‘व्यत्या’ इति श्रुतौ ‘आ’ पदस्यानर्थक्यमपि स्वीकृतमाचार्येण (सायणेन)। विवरणकृता तु ‘अहि’ नाम दानव इत्यादिना व्याख्यातम्। परन्तूभयविधमेव व्याख्यानं पदग्रन्थविरुद्धत्वादुपेक्षणीयम्। तत्र हि ‘अ꣡त्याः, हि꣣यानाः꣡’, इति पाठदर्शनात्” इति।