Donation Appeal
Choose Mantra
Samveda/1462

तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्॥१४६२

Veda : Samveda | Mantra No : 1462

In English:

Seer : vishvaamitro gaathinaH | Devta : savitaa | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : tatsaviturvareNya.m bhargo devasya dhiimahi . dhiyo yo naH prachodayaat.1462

Component Words :
tat . savituH . vareNyam . bhargaH . devasya . dhiimahi . dhiyaH . yaH . naH . prachodayaat . pra . chodayaat.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : विश्वामित्रो गाथिनः | देवता : सविता | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में सविता परमेश्वर की उपासना का विषय वर्णित है।

पदपाठ : तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि । धियः । यः । नः । प्रचोदयात् । प्र । चोदयात्॥

पदार्थ : ऋचा में तीन पाद हैं। ‘प्रत्येक वेद से एक-एक पाद दुहा गया है।’ (मनु० २।७७) मनु के इस वचन के आधार पर प्रत्येक पाद का पृथक् अर्थ देखते हैं। १. (सवितुः) सकल जगत् की उत्पत्ति करनेवाले, सब शुभगुणों के प्रेरक परमात्मा का (तत्) वह प्रसिद्ध तेज (वरेण्यम्) वरणीय है। २. (देवस्य) दाता, प्रकाशमान और प्रकाशक उस परमात्मा के (भर्गः) तेज को, हम (धीमहि) धारण करें वा ध्यावें। ३. (यः) जो सविता प्रभु (नः) हमारे (धियः) प्रज्ञाओं और कर्मों को (प्रचोदयात्) सन्मार्ग पर प्रेरित करे ॥१॥

भावार्थ : सकल जगत् के स्रष्टा, सूर्य के समान सबके अन्तः करण को प्रकाशित करनेवाले, सर्वान्तर्यामी परमेश्वर के तेजों के ध्यान और धारण करने से वह उपासक की बुद्धियों और क्रियाओं को सन्मार्ग में प्रेरित करके उसे सुखी करता है ॥१॥


In Sanskrit:

ऋषि : विश्वामित्रो गाथिनः | देवता : सविता | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ सवितुः परमेश्वरस्योपासनाविषयमाह।

पदपाठ : तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि । धियः । यः । नः । प्रचोदयात् । प्र । चोदयात्॥

पदार्थ : अत्र त्रयः पादाः। त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् (मनु० २।७७) इति मनूक्तदिशा प्रतिपादं पृथगर्थोऽध्यवसेयः। (सवितुः) सर्वजगदुत्पादकस्य, सर्वशुभगुणप्रेरकस्य परमात्मनः (तत्) प्रसिद्धं ज्योतिः (वरेण्यम्) वरणीयं वर्तते इति शेषः ॥ (देवस्य) दातुः प्रकाशमानस्य प्रकाशयितुश्च तस्य परमात्मनः (भर्गः) तेजः, वयम् (धीमहि) दधीमहि ध्यायेम वा ॥ (यः) सविता देवः परमेश्वरः (नः) अस्माकम् (धियः) प्रज्ञाः कर्माणि च (प्रचोदयात्) सन्मार्गे प्रेरयेत् ॥१॥२[(सवितुः) यः सर्वं जगत् सवति सूते वा, सर्वाणि शुभगुणकर्माणि सुवति च स सविता, तस्य। षु प्रसवैश्यर्ययोः भ्वादिः, षूङ् प्राणिगर्भविमोचने अदादिः, षू प्रेरणे तुदादिः। (वरेण्यम्) वृञ् वरणे धातोः ‘वृञ एण्यः’ उ० ३।९८ इति एण्यप्रत्ययः। (देवस्य) देवो दानाद् वा दीपनाद् वा द्योतनाद् वा। निरु० ७।१५। (भर्गः३) भृजी भर्जने। ‘अञ्च्यञ्जियुजिभृजिभ्यः कुश्च।’ उ० ४।२।१७ इत्यसुन् प्रत्ययः धातोर्जकारस्य कुत्वं च। (धीमहि४) अत्र डुधाञ् धातोर्लिङि ‘छन्दस्युभयथा’ अ० ३।४।११७ इत्यार्धधातुकत्वात् शप् न आकारस्य ईत्वं च। (धियः५) धीः इति कर्मनाम प्रज्ञानाम च। निघं० २।१, ३।९। (प्रचोदयात्) प्र पूर्वः चुद प्रेरणे, लेटि ‘लेटोऽडाटौ’ अ० ३।४।९४ इत्याडागमः। ‘इतश्च लोपः परस्मैपदेषु’ अ० ३।४।९७ इति तिपः इकारस्य लोपः।]

भावार्थ : सर्वजगत्स्रष्टुः सूर्यस्येव सर्वान्तःकरणप्रकाशकस्य सर्वान्तर्यामिनः परमेश्वरस्य तेजसां ध्यानेन धारणेन च स उपासकस्य बुद्धीः कर्माणि च सन्मार्गे प्रेरयित्वा तं सुखयति ॥१॥

टिप्पणी:१. ऋ० ३।६२।१०, य० ३।३५, २२।९, ३०।२, ३६।३, आदौ ‘भूर्भुवः स्वः’ इत्यधिकम्, तै०सं० १।५।६।४, ४।१।११।१, तै० आ० १।११।२।२. यः अस्मदीयाः बुद्धीः प्रकर्षेण चोदयति ध्यानधारणासमाधिभिः तस्य सवितुर्देवस्य दानादिगुणयुक्तस्य तत् परं प्रविशाम इति संक्षेपः—इति विवरणकारः। ‘यः’ सविता देवः नः अस्माकं धियः कर्माणि धर्मादिविषया वा बुद्धीः प्रचोदयात् प्रेरयेत्, ‘तत्’ तस्य देवस्य द्योतमानस्य सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य वरेण्यं सत्स्वरूपतया ज्ञेयतया च भजनीयं भर्गः अविद्यातत्कार्ययोर्भर्जनात् भर्गः स्वयं ज्योतिस्तेजः परब्रह्मात्मकं धीमहि वयं ध्यायामः। तत् इति भर्गोविशेषेणम्। सवितुः देवस्य तत् तादृशं भर्गो धीमहि। किं तदित्यपेक्षायामाह—यः इति लिङ्गव्यत्ययः। यद् भर्गो धियः प्रचोदयात् तद् ध्यायेम, इति समन्वयः। यद्वा यः सविता सूर्यः धियः कर्माणि प्रचोदयात् प्रेरयति तस्य सवितुः सर्वस्य प्रसवितुः देवस्य द्योतमानस्य सूर्यस्य ‘तत्’ सर्वैर्दर्शनीयतया प्रसिद्धं वरेण्यं सर्वै—सम्भजनीयं भर्गः पापानां तापकं तेजोमण्डलं धीमहि ध्येयतया मनसा धारयेम। यद्वा, भर्गशब्देन अन्नमभिधीयते। यः सविता देवः धियः प्रचोदयति, तस्य देवस्य प्रसादात् तद् भर्गः अन्नादिलक्षणं फलं धीमहि धारयामः, तस्याधारभूता भवेमेत्यर्थः—इति सायणः। तत्सवितुः सावित्री गायत्री। तदिति षष्ठ्या विपरिणम्यते। तस्य सवितुः सर्वस्य प्रसवदातुः। .... वाक्यभेदेन वा योजना—तत् सवितुः वरणीयं वीर्यं तेजो वा देवस्य ध्यायामः, यश्च बुद्धीः प्रचोदयात् प्रेरयत्यस्माकं तं च ध्यायामः, स च सवितैव भवति। लिङ्गव्यत्ययेन वा योजना—तत् सवितुर्वरणीयं भर्गो देवस्य ध्यायामः धियो यद् भर्गः अस्माकं प्रेरयति—इति य० ३।३५ भाष्ये उवटः। तत्र महीधरमतेऽपि त्रयोऽप्येते विकल्पाः। [सर्वे वयम्] यः नः धियः प्रचोदयात् [तस्य] सवितुः देवस्य तद् वरेण्यं भर्गः धीमहि—इति ऋ० ३।६२।१० इत्यस्य भाष्ये दयानन्दः। यजुर्भाष्येऽपि तेन सर्वत्र ‘यः’ इत्यनेन सविता देवो गृहीतः।३. भ्रस्ज पाके, असुन्। ‘भ्रस्जो रोपधयो रमन्यतरस्याम्।’ ६।४।४७ इति रोपधयोर्लोपो रमागमश्च, न्यङ्क्वादिपाठात् (७।३।५३) कुत्वम्—इति सा०।४. धीमहि, ध्यायतेर्लिङि ‘बहुलं छन्दसि’ अ० २।४।७६ इति सम्प्रसारणम्, व्यत्ययेनात्मनेपदम्। यद्वा धीङ् आधारे, लिङि ‘बहुलं छन्दसि’ २।४।७३ इति विकरणस्य लुक्—इति सा०। ध्यै चिन्तायाम्, अस्य छान्दसं सम्प्रसारणम्, ध्यायामः चिन्तयामः निदिध्यासं तद्विषयं कुर्म इति यावत्—इति य० ३।३५ भाष्ये उवटः। धीमहि ध्यायामः, छान्दसं सम्प्रसारणम्—इति तत्रैव महीधरः। दधीमहि इति ऋग्भाष्ये यजुर्भाष्ये च द०। ध्यायेम—इति य० ३६।३ इत्यस्य भाष्ये द०।५. धीशब्दो बुद्धिवचनः कर्मवचनो वा वाग्वचनश्च, बुद्धीः कर्माणि वा वाचो वा—इति य० ३।३५ भाष्ये उवटः।