Samveda/1739
सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः। समर्वन्तो रघुद्रुवः स सुजातासः सूरय इष स्तोतृभ्य आ भर (घु)।। [धा. । उ । स्व. ।]॥१७३९
Veda : Samveda | Mantra No : 1739
In English:
Seer : vasushruta aatreyaH | Devta : agniH | Metre : pa.mktiH | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : so agniryaa vasurgRRiNe sa.m yamaayanti dhenavaH . samarvanto raghudruvaH sa.m sujaataasaH suuraya iSha.m stotRRibhya aa bhara.1739
Component Words : saH . agniH . yaH . vasuH . gRRiNe . sam . yam . aayanti . aa . yanti . dhenavaH . sam . arvantaH . raghudravaH . raghu . dravaH . sam . sujaataasaH . su . jaataasaH . suurayaH . iSham . stotRRibhya . aa . bhara.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : वसुश्रुत आत्रेयः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः
विषय : आगे फिर अग्नि नामक जगदीश्वर का वर्णन करते हैं।
पदपाठ : सः । अग्निः । यः । वसुः । गृणे । सम् । यम् । आयन्ति । आ । यन्ति । धेनवः । सम् । अर्वन्तः । रघुद्रवः । रघु । द्रवः । सम् । सुजातासः । सु । जातासः । सूरयः । इषम् । स्तोतृभ्य । आ । भर॥
पदार्थ : (सः) वही (अग्निः) अग्निशब्दवाच्य जगदीश्वर है, (यः) जो (वसुः) सबको ढकनेवाला अर्थात् सर्वव्यापक है, उसकी मैं (गृणे) स्तुति करता हूँ, (यम्) जिसके पास (धेनवः) स्तोताओं की वाणियाँ (समायन्ति) पहुँचती हैं, (रघुद्रुवः) वेगगामी (अर्वन्तः) पृथिवी, चन्द्र आदि लोक (सम्) पहुँचते हैं, (सुजातासः) सुप्रसिद्ध (सूरयः) विद्वान् लोग (सम्) पहुँचते हैं। हे जगदीश्वर ! आप (स्तोतृभ्यः) आपके गुण-कर्म-स्वभाव की स्तुति करनेवालों को (इषम्) अभीष्ट अभ्युदय और निःश्रेयस रूप फल (आ भर) प्रदान करो ॥३॥
भावार्थ : गायें, घोड़े, मनुष्य, सूर्य, चाँद, तारे, पृथिवी, मङ्गल, बुध, बृहस्पति आदि लोक, नदियाँ, पहाड़, समुद्र, झरने, वृक्ष, लताएँ सभी अपने-अपने गुण जिससे पाते हैं, वही अग्निशब्दवाच्य जगदीश्वर है ॥३॥
In Sanskrit:
ऋषि : वसुश्रुत आत्रेयः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः
विषय : अथ पुनरप्यग्निनामानं जगदीश्वरं वर्णयति।
पदपाठ : सः । अग्निः । यः । वसुः । गृणे । सम् । यम् । आयन्ति । आ । यन्ति । धेनवः । सम् । अर्वन्तः । रघुद्रवः । रघु । द्रवः । सम् । सुजातासः । सु । जातासः । सूरयः । इषम् । स्तोतृभ्य । आ । भर॥
पदार्थ : (सः) स एव (अग्निः) अग्निशब्दवाच्यो जगदीश्वरोऽस्ति, (यः वसुः) यः सर्वाच्छादकः सर्वव्यापको वर्तते। [वस्ते आच्छादयति सर्वं स वसुः।] तमहम् (गृणे) स्तौमि, (यम् धेनवः) स्तोतॄणां वाचः। [धेनुरिति वाङ्नाम निघं० १।११।] (समायन्ति) सम्प्राप्नुवन्ति। (रघुद्रुवः) शीघ्रगामिनः (अर्वन्तः) पृथिवीचन्द्रादयो लोकाः (सम्) समायन्ति सम्प्राप्नुवन्ति, (सुजातासः) सुप्रसिद्धाः (सूरयः) विद्वांसः (सम्) समायन्ति, सम्प्राप्नुवन्ति। हे अग्ने जगदीश्वर ! त्वम् (स्तोतृभ्यः) त्वद्गुणकर्मस्वभावकीर्तनपरेभ्यो जनेभ्यः (इषम्) अभीष्टम् अभ्युदयनिःश्रेयसरूपं फलम् (आ भर) आहर ॥३॥२
भावार्थ : गावोऽश्वाः मनुष्याः सूर्यचन्द्रनक्षत्रपृथिवीमङ्गलबुधबृहस्पत्यादयो लोकाः नद्यः पर्वताः समुद्रा निर्झरा वृक्षा वीरुधः सर्वेऽपि स्वान् स्वान् गुणान् यस्माद् विन्दन्ति स एवाग्निशब्दवाच्यो जगदीश्वरोऽस्ति ॥३॥
टिप्पणी:१. ऋ० ५।६।२।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं भौतिकाग्निपक्षे व्याख्यातः।