Samveda/1781
जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम्। सजूरश्विभ्यामुषसा सवीर्यमस्मे धेहि श्रवो बृहत् (ला)।। [धा. । उ नास्ति । स्व. ।]॥१७८१
Veda : Samveda | Mantra No : 1781
In English:
Seer : praskaNvaH kaaNvaH | Devta : agniH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH
Subject : English Translation will be uploaded as and when ready.
Verse : juShTo hi duuto asi havyavaahano.agne rathiiradhvaraaNaam . sajuurashvibhyaamuShasaa suviiryamasme dhehi shravo bRRihat.1781
Component Words : juShTaH . hi . duutaH . asi . havyavaahanaH . havya . vaahanaH . agne . rathiiH . adhvaraaNaam . sajuuH . sa . juuH . ashvibhyaam . uShasaa . suviiryam . su . viiryam . asmeiti . dhehi . shravaH . bRRihat.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : प्रस्कण्वः काण्वः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : आगे फिर योग के विषय में कहते हैं।
पदपाठ : जुष्टः । हि । दूतः । असि । हव्यवाहनः । हव्य । वाहनः । अग्ने । रथीः । अध्वराणाम् । सजूः । स । जूः । अश्विभ्याम् । उषसा । सुवीर्यम् । सु । वीर्यम् । अस्मेइति । धेहि । श्रवः । बृहत्॥
पदार्थ : हे (अग्ने) मार्गदर्शक योगिराज ! (जुष्टः) सेवन किये हुए आप (हि) निश्चय ही (दूतः) दोषों को तपा डालनेवाले, (हव्यवाहनः) प्राप्तव्य योगसिद्धियों को प्राप्त करानेवाले और (अध्वराणाम्) किये जानेवाले अष्टाङ्गयोग रूप यज्ञों के (रथीः) चालक (असि) हो। आप (अश्विभ्याम्) प्राणापानों से (उषसा) तथा ज्योतिष्मती प्रज्ञा से (सजूः) सहायवान् होकर (अस्मे) हमें (सुवीर्यम्) सुवीर्ययुक्त (बृहत् श्रवः) योगशास्त्र का महान् ज्ञान और उससे मिलनेवाला यश (धेहि) प्रदान करो ॥२॥
भावार्थ : अष्टाङ्गयोग का अभ्यास करनेवाले मनुष्य के लिए प्रणव-जप, परमेश्वर की उपासना और योग के गुरु द्वारा बताये हुए मार्ग का अनुसरण करना लक्ष्यप्राप्ति में परम सहायक होते हैं ॥२॥
In Sanskrit:
ऋषि : प्रस्कण्वः काण्वः | देवता : अग्निः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः
विषय : अथ पुनरपि योगविषय उच्यते।
पदपाठ : जुष्टः । हि । दूतः । असि । हव्यवाहनः । हव्य । वाहनः । अग्ने । रथीः । अध्वराणाम् । सजूः । स । जूः । अश्विभ्याम् । उषसा । सुवीर्यम् । सु । वीर्यम् । अस्मेइति । धेहि । श्रवः । बृहत्॥
पदार्थ : हे (अग्ने) मार्ददर्शक योगिराड् ! (जुष्टः) सेवितः त्वम् (हि) निश्चयेन (दूतः) दोषाणामुपतापयिता। [टुदु उपतापे, स्वादिः। ‘दुतनिभ्यां दीर्घश्च’। उ० ३।९० इति क्तः प्रत्ययो धातोर्दीर्घश्च।] (हव्यवाहनः) प्राप्तव्यानां योगसिद्धीनां प्रापयिता, (अध्वराणाम्) क्रियमाणानामष्टाङ्गयोग- यज्ञानाम् (रथीः) चालकश्च (असि) विद्यसे। त्वम् (अश्विभ्याम्) प्राणापानाभ्याम् (उषसा) ज्योतिष्मत्या प्रज्ञया च (सजूः) सप्रीतिः सन् (अस्मे) अस्मभ्यम् (सुवीर्यम्) सुवीर्ययुक्तम् (बृहत् श्रवः) योगशास्त्रस्य महद् ज्ञानम् तज्जन्यं यशश्च (धेहि) प्रयच्छ ॥२॥२
भावार्थ : अष्टाङ्गयोगमभ्यस्यते जनाय प्रणवजपः परमेश्वरोपासनं योगगुरुनिर्दिष्टमार्गानुसरणं च लक्ष्यप्राप्तौ परमसहायकानि जायन्ते ॥२॥
टिप्पणी:१. ऋ० १।४४।२।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विदुषां सङ्गेन विद्यापराक्रमशत्रुविजयचक्रवर्तिराज्यादि-श्रीप्राप्तिविषयेऽग्नेर्जवादियोगे- नोत्तमव्यवहारसिद्धिविषये च व्याचष्टे।