Samveda/1815
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः। वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम्। निष्षहमाणो यमते नायते धन्वासहा नायते॥१८१५
Veda : Samveda | Mantra No : 1815
In English:
Seer : paruchChepo daivodaasiH | Devta : agniH | Metre : atyaShTiH | Tone : gaandhaaraH
Subject : English Translation will be uploaded as and when ready.
Verse : sa hi puruu chidojasaa virukmataa diidyaano bhavati druhantaraH parashurna druhantaraH . viiDu chidyasya samRRitau shruvadvaneva yatsthiram . niShShahamaaNo yamate naayate dhanvaasahaa naayate.1815
Component Words : saH . hi . puru . chit . ojasaa . virukmataa . vi . rukmataa . diidyaanaH . bhavati . druhantaraH . druham . taraH . parashuH . na . drahuntaraH . druham . taraH . viiDu . chit . yasya . samRRitau . sama . RRitau . shruvat . vanaa . iva . yat . sthiram . niShpahamaaNaH . niH . sahamaanaH . yamate . na . ayate . dhanvaasahaa . dhanvaa . sahaa . na . ayate.
Word Meaning :
Verse Meaning :
Purport :
In Hindi:
ऋषि : परुच्छेपो दैवोदासिः | देवता : अग्निः | छन्द : अत्यष्टिः | स्वर : गान्धारः
विषय : अगले मन्त्र में जीवात्मा का रणकौशल वर्णित है।
पदपाठ : सः । हि । पुरु । चित् । ओजसा । विरुक्मता । वि । रुक्मता । दीद्यानः । भवति । द्रुहन्तरः । द्रुहम् । तरः । परशुः । न । द्रहुन्तरः । द्रुहम् । तरः । वीडु । चित् । यस्य । समृतौ । सम । ऋतौ । श्रुवत् । वना । इव । यत् । स्थिरम् । निष्पहमाणः । निः । सहमानः । यमते । न । अयते । धन्वासहा । धन्वा । सहा । न । अयते॥
पदार्थ : (विरुक्मता) दीप्तियुक्त (ओजसा) प्रताप से (पुरु चित्) बहुत अधिक (दीद्यानः) द्युतिमान् (स हि) वह अग्नि अर्थात् अग्रनायक जीवात्मा (द्रुहन्तरः) द्रोह करनेवाले काम, क्रोध आदि शत्रु को पार करनेवाला (भवति) हो जाता है, (परशुः न) परशु के समान (द्रुहन्तरः) द्रोहकर्ता का वध करनेवाला हो जाता है, (यस्य) जिस जीवात्मा की (समृतौ) टक्कर होने पर (वीडु चित्) बलवान् भी, (वना इव) वन के समान (यत् स्थिरम्) जो स्थिर है, वह भी (श्रुवत्) विनष्ट हो जाता है या डगमगा जाता है, जो (निष्षहमाणः) शत्रुओं को तिरस्कृत करता हुआ, उन्हें (यमते) युद्ध से हटा देता है, (न अयते) स्वयं युद्ध से पलायन नहीं करता, अपितु (धन्वसहा न) धनुर्धारी के समान (अयते) देवासुरसङ्ग्राम में जाता है ॥३॥इस मन्त्र में उपमालङ्कार है, तीन उपमाएँ हैं। ‘द्रुहन्तरः’ और ‘नायते’ की आवृत्ति में यमक है ॥३॥
भावार्थ : देहधारी जीवात्मा जड़ जमाये हुए भी आन्तरिक तथा बाह्य सब शत्रुओं का उन्मूलन करके रणकुशल सेनापति के समान देवासुरसङ्ग्राम में विजयी हो ॥३॥इस खण्ड में परमात्मा और जीवात्मा के विषय का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥नवम प्रपाठक में प्रथम अर्ध समाप्त ॥
In Sanskrit:
ऋषि : परुच्छेपो दैवोदासिः | देवता : अग्निः | छन्द : अत्यष्टिः | स्वर : गान्धारः
विषय : अथ जीवात्मनो रणकौशलं वर्णयति।
पदपाठ : सः । हि । पुरु । चित् । ओजसा । विरुक्मता । वि । रुक्मता । दीद्यानः । भवति । द्रुहन्तरः । द्रुहम् । तरः । परशुः । न । द्रहुन्तरः । द्रुहम् । तरः । वीडु । चित् । यस्य । समृतौ । सम । ऋतौ । श्रुवत् । वना । इव । यत् । स्थिरम् । निष्पहमाणः । निः । सहमानः । यमते । न । अयते । धन्वासहा । धन्वा । सहा । न । अयते॥
पदार्थ : (विरुक्मता) दीप्तिमता (ओजसा) प्रतापेन (पुरु चित्) अत्यधिकम् (दीद्यानः) द्योतमानः (स हि) स खलु अग्निः अग्रणीः जीवात्मा (द्रुहन्तरः) द्रुहं द्रोग्धारं शत्रुं कामक्रोधादिकं तरति अतिक्रामति यः तथाविधः (भवति) जायते, (परशुः न) परशुः इव (द्रुहन्तरः) द्रुहं द्रोग्धारं तरति हिनस्ति यः तादृशो भवति, (यस्य) अग्नेः जीवात्मनः (समृतौ) संघट्टे सति (वीडु चित्) बलवदपि, (वना इव) वनमिव अरण्यमिव (यत् स्थिरम्) बद्धमूलं, तदपि (श्रुवत्) शीर्यते स्रवति वा। [शॄ हिंसायाम्, स्रु गतौ वा, छान्दसं रूपम्]। सः (निष्षहमाणः) शत्रून् अभिभवन्, तान् (यमते) यमयते युद्धादुपरतान् करोति। [यमु उपरमे, णेर्लुकि रूपम्।] (न अयते) स्वयं युद्धान्न पलायते, अपितु (धन्वसहा२ न) धानुष्कः इव (अयते) देवासुरसंग्रामं गच्छति ॥३॥३अत्रोपमालङ्कारः, तिस्र उपमाः। ‘द्रुहन्तरः’, ‘नायते’ अनयोरावृत्तौ यमकम् ॥३॥
भावार्थ : देहधारी जीवात्मा बद्धमूलानप्यान्तरान् बाह्यांश्च सर्वाञ्छत्रूनुन्मूल्य रणकुशलः सेनापतिरिव देवासुरसंग्रामे विजयी भवेत् ॥३॥अस्मिन् खण्डे परमात्मजीवात्मनोर्विषयस्य वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
टिप्पणी:१. ऋ० १।१२७।३।२. धनुषा शत्रूनभिभवतीति धन्वसहाः धानुष्कः, सहतेरसुन्, छान्दसोऽन्त्यलोपः—इति सा०।३. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं ‘कः प्रजापालनायोत्तमो भवती’ति विषये व्याख्यातः।